SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३८४ तत्त्वसंग्रहे अर्थापत्तिरभावश्च षडते साध्यसाधकाः॥" इति नेयत्ता स्यात् प्रमाणानाम् ॥ १५५५ ॥ तमेवातिप्रसङ्गं दर्शयन्नाह तरुपंक्त्यादिसन्दृष्टाक्कपादपदर्शनात् । . द्वितीयशाखिविज्ञानादाद्योऽसाविति निश्चयः ॥१५५६॥ प्रमाणान्तरमासक्तं सादृश्याद्यनपेक्षणात्। गृहीतग्रहणानो चेत् समानमुपमास्वपि ॥१५५७॥ आदिशब्देन पिपीलिकादिपंक्तिग्रहणम्। तरुपंक्त्यादिदर्शनकाले। प्रथमवृक्षग्रहणाद् 'आद्योऽयं वृक्षः' इति निश्चयो नोपजायते। द्वितीयवृक्षोपलब्धौ तु सत्यामाद्ये शाखिनि 'आद्योऽयं शाखी' इति योऽयं जायते निश्चयः, स प्रमाणान्तरं स्यात् । कस्मात् ? सादृश्याद्यनपेक्षणात्। सादृश्यं नापेक्षत इति नोपमानमिदम् । अक्षव्यापारानपेक्षणान्न प्रत्यक्षम्। लिङ्गानपेक्षणान्नानुमानम्। शब्दनिरपेक्षत्वान्न शाब्दम्। अन्यथाऽनुपपद्यमानदृष्टश्रुतार्थानपेक्षत्वान्नार्थापत्तिः । प्रमाणप्रमेयनिवृत्त्यनपेक्षणान्नाभावः । तथा . 'अस्मात् पूर्वमिदं पश्चाद्दीर्घ ह्रस्वमिदं महत्। इत्येवमादिविज्ञाने 'प्रमाऽनिष्टा प्रसज्यते'॥ इति वक्तव्यम्। स्मृतित्वाद् गृहीतग्रहणान प्रमाणान्तरमेतदिति चेत् ? समानमुपमास्वपि गृहीतग्राहित्वम् । उपमास्विति व्यक्तिभेदाबहुवचनम् ॥ १५५६-१५५७॥ गवयस्योपलम्भे च तुरङ्गादौ प्रवर्त्तते। तद्वैसादृश्यविज्ञानं यत्तदन्या प्रमा न किम् ॥१५५८॥ किञ्च-यथा गवयदर्शनाद गवि साधर्म्यज्ञानं प्रमाणान्तरं व्यवस्थाप्यते, तथा गवयदर्शनात्तुरङ्गादौ वैसादृश्यस्य विज्ञानमपि कस्मान्न प्रमाणान्तरं व्यवस्थाप्येत ! अभावप्रमाणान्तर्भावान्न प्रमाणान्तरमिति चेत् ? नैतद्युक्तम्; कस्मात्? भावावलम्बनात्; अभावस्याभावविषयत्वात् । स्यादेतत्-वैसादृश्यं हि सादृश्याभावः, तस्मादस्त्येवाभावान्तर्गतिः? इत्याह अभावान्तर्गतं नो चेन्नैवं भावावलम्बनात्। अन्योन्याभावतायां वा समं सादृश्यबुद्धिषु॥१५५९॥ [G.451] अन्योऽन्याभावतायां सत्यां यद्यभावरूपं प्रमेयं व्यवस्थाप्यते तदा, समम्= तुल्यमेतदीदृशं प्रमेयं सादृश्यबुद्धिषु-उपमानत्वेनेष्टासु॥ १५५८-१५५९ ॥ कथम्? इत्याह सादृश्यस्य विवेको हि यथा तत्र प्रमीयते। सर्वावयवसामान्यवियोगो गम्यते तथा ॥१५६०॥ यथा तत्र वैधर्म्यज्ञाने सादृश्यविवेकः प्रतीयते, तथा साधर्म्यज्ञानेऽपि सर्वावयवसामान्यवियोगो गम्यत इत्यभावान्तर्भावः स्याद्, वैसादृश्यज्ञानवत् ॥ १५६० ।। १-१. 'षट् प्रमाणानि जैमिने:- इति षड्दर्शनसमुच्चये, न्यायकुमुदचन्द्रे च पाठः।। २. प्रमाणानिष्टा-जै०। ३. विवेको-पा०, गा०
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy