________________
३८३
प्रमाणान्तरभावपरीक्षा अभ्युपगम्य सादृश्यस्य वस्तुत्वं परमतेनैवोपमानाप्रमाण्यमाह
अस्तु वा वस्तु सादृश्यं तत्तु सामान्यवद् गवि। प्रतियोगिन्यदृष्टेऽपि दृष्टमेव पुरःस्थितम् ॥१५५०॥ • तथापि' स्मृतिरूपत्वं न कथञ्चित्रिवर्तते।
सत्तामात्रेण विज्ञानं सादृश्यं च गवात्मनि ॥१५५१॥ गवयेन तु सादृश्यमित्येवं न निश्चितम्।
प्रमिणोत्युपमा त्वे वैलक्षण्यं ततः स्मृतेः ॥१५५२॥ भवतु सादृश्यम्, वस्तुगति च सामान्यमिव सर्वात्मना परिसमाप्तम्, तथा [G.449] गवयदर्शनात् पूर्वं गवि प्रागवस्थिते प्रत्यक्षेण गृह्यमाणे ततोऽव्यतिरेकात् तदपि पुरोऽवस्थितं सादृश्यं गृहीतमेव, गोस्वरूपवत्। अन्यथा ह्यव्यतिरेको न सिध्यति । ततश्च गृहीतग्रहणात् स्मृतिरूपत्वान प्रमाणम्। अथापि स्यात्-सत्तामात्रेण पूर्वं सादृश्यं गृहीतम्, एवं तद्गवयेनैतत् सादृश्यं गोरित्यत्तेन रूपेण ने गृहीतम्; उपमानं त्वनेनाकारेण प्रमिणोति, ततः स्मृतिरूपत्वमसिद्धमिति ? ॥ १५५०-१५५२॥ तत्राह-
. . यदि नाम गृहीतं नो नाम्ना तेनैव तत् पुरा।
गृहीतं तु स्वरूपेण यदस्यात्माऽभिधीयते ॥१५५३॥ यदि नाम गवयेन सादृश्यमित्यनेन नाम्ना विशिष्टं गोद्रव्यं गवयदर्शनात् पूर्वं न गृहीतम्, स्वरूपेण तु गृहीतमेव । यस्तस्य स्वभावः स गृहीत इति यावत्। किं तत्स्वरूपम्? इत्याह- यदस्यात्माभिधीयतइति । यत्स्वरूपं तस्य गोपिण्डस्यात्मेत्यभिधीयते । तेन स्वरूपेण स्वभावलक्षणेन तद् गृहीतमिति यावत् || १५५३॥
यदि नाम गृहीतम्, ततः किम्? इत्याह: न नाम रूपं वस्तूनां यत् तस्याग्रहणे सति।
. . परिज्ञातात्मतत्त्वानामप्यविज्ञानता भवेत् ॥१५५४॥ न हि वस्तूनां स्वरूपं नाम भवति, येन तस्य नाम्नः पूर्वमग्रहणे गृहीतस्यापि वस्तुनो न ग्रहणं स्यात्। विशेषतश्च निश्चयात्मकप्रत्यक्षवादिनो न गृहीतमित्येवं न युक्तं वक्तुम् ॥१५५४॥
एतावता च लेशेन प्रमाणत्वव्यवस्थितौ।
नेयत्ता स्यात् प्रमाणानामन्यथाऽपि प्रमाणत: ॥१५५५॥ [G.450] किञ्च-अनेन तुल्य इति ज्ञानादेतावता लेशेन प्रमाणान्तरकल्पनायामतिप्रसङ्गः स्यात्।
"प्रत्यक्षमनुमानं च शाब्दं चोपमया सह । २. विज्ञातं- पा०, गा०।
३-३.०मुपमानं तु-पा०, गा०।। ४. पुरोऽवस्थिते- पा०, गा०। ५. गृहीतम्-पा०, गा० ।
६. एतद्गवये०-पा०, गा०। ७. विजातता-पा०, गा०।
प्रसङ्गत:-जे० पुस्तके पाठा० ।
१.तथा च-पा०, गा०/