________________
३८२
तत्त्वसंग्रहे मान्ययोगात्मकं सादृश्यमप्ति प्रमेयम्, अतो हेतुरसिद्ध इति चेत् ? तन्न; सामान्यपरीक्षायां सामान्यानां निरस्तत्वान्न तेषां भूयस्त्वम्, नापि तैर्योगोऽस्तीति नासिद्धता हेतोः। स्यादेतत्, अस्त्येव सामान्यप्रतिपादकं प्रमाणम्, अतोऽसिद्ध एव हेतुः । तत्रेदं प्रमाणम्-सामान्यं वस्तु, तथा प्रत्यक्षग्राह्यम्-इति प्रतिज्ञाद्वयम्। अभावान्यप्रमेयत्वादिति हेतुः । अभावात् प्रमेयादन्यप्रमेयस्वभावत्वादित्यर्थः । असाधाणवस्तुवदिति दृष्टान्तः। असाधारणवस्तुत्वलक्षणम् ॥ १५४२-१५४४ ॥ अभावत्यादिना दूषणमाह
अभावपक्षे निक्षिप्तसामान्यार्थप्रवादिनाम्।
असिद्धिराद्यसाध्ये च प्रतिज्ञार्थंकदेशता ॥१५४५।। ... [G.448] सामान्यार्थेत्यत्रार्थशब्दः प्रमेयवचनः । प्रतिज्ञाद्वयेऽपि बौद्धानामस्वभावसामान्यवादिनामभावादन्यत्वं सामान्यस्यासिद्धमिति हेतोरसिद्धिः । प्रतिज्ञाथैकदेशभावश्चाद्ये साध्ये वस्तुलक्षणे। तथा हि-अभावादन्यद्वस्त्वेव भवति; अभावव्यवच्छेदलक्षणत्वाद् भावस्य, तदेव शब्दान्तरेण हेतुत्वेनोपात्तम्। तदेव च साध्यमिति प्रतिज्ञार्थंकदेशता ॥ १५४५ ॥
किञ्च-स्मृतिस्वभावत्वाद् वा न प्रमाणमुपमानम्, स्मृत्यन्तरवत् । तत्र स्मृतिस्वभावत्वं . प्रतिपादयन्नाह
एवं तु युज्यते तत्र गोरूंपावयवैः सह। गवयावयवाः केचित् तुल्यप्रत्ययहेतवः ॥ १५४६ ॥ तत्रास्य गवये दृष्टे स्मृतिः समुपजायते। असकृद् दृष्टपूर्वेषु गोरूपावयवेष्वियम् ॥१५४७॥ अत एव तुरङ्गादौ तत्सादृश्येन गोमति:।
वर्त्तते गवये दृष्ट को विशेषोऽन्यथा पुनः ॥१५४८ ॥ प्रकृत्यैवासत्यपि सादृश्याख्ये वस्तुनि केचिद् गवयावयवा गोगतैरवयवैः सह तुल्यप्रत्यवमर्शविकल्पहेतवः । न सादृश्यं नामार्थान्तरम्, अन्यत्र तुल्यप्रत्यवमर्शहेतुभ्योऽवयवेभ्यः; तेभ्योऽर्थान्तरस्य बुद्धावप्रतिभासांनात्। तस्माद् गवयदर्शनाद् गोगतावयवेष्वेव भूयोदर्शनबलात् स्मृतिरूपमेव तज्जायते ज्ञानम्, न तु सादृश्याख्यवस्तुग्राहि । अन्यथा हि तुरगादावपि भूयोऽवयवसामान्ययोगोऽस्तीति तत्रापि गवयदर्शनाद् गवीव मतिः किं न प्रवर्तेत ! न ह्यत्र कश्चिद्विशेषोऽस्ति; उभयत्रापि सादृश्यसद्भावात्। अन्यथेति । यद्यसकृन्न दृष्टाः स्युः । स्मृतित्वे तु नायं दोषः; यदेवासकृद् दृष्टपूर्वं तत्रैव स्मृतिर्भवति। प्रतिनियतशक्तित्वाच्च स्मृतिप्रबोधहेतूनाम् ॥ १५४६-१५४८॥ स्यादेतत्-भवतु स्मृतिः, तथापि स्मृतिरेव कस्मादप्रमाणम्? इत्याह
विज्ञातार्थप्रकाशत्वान प्रमाणमियं ततः।
प्रमाणान्तरभावस्तु कुत एव भविष्यति! ॥ १५४९ ॥ इयमिति स्मृतिः ॥ १५४९ ॥ १-१. अभावपक्षनि०- पा०, गा०। ... नो मति:- पा०, गा०। ३. जायते-पा०, गा०।