________________
प्रमाणान्तरभावपरीक्षा
३८१ . अथापि स्याद्-भवतु प्रमाणमुपमानम्, तत् कथं प्रत्यक्षादेः पृथक् प्रमाणम्? इत्याह
न हि प्रत्यक्षता तस्य विज्ञानस्योपपद्यते। • इन्द्रियार्थाभिसम्बन्धव्यापारविरहात् तदा ॥१५३७॥ त्रैस्वप्यानुपपत्तेश्च न च तस्यानुमानता। पक्षधर्मादि नैवात्र कथञ्चिदवकल्पते ॥१५३८॥ प्राक् प्रमेयस्य सादृश्यं न धर्मत्वेन गृह्यते।
गवये गृह्यमाणं च न गवामनुमापकम् ॥१५३९॥ न तावत् प्रत्यक्षं युक्तम् इन्द्रियार्थाभिसम्बन्धेनानुत्पत्तेः । नाप्यनुमानम्; त्रैरूप्याभावात्। तथा हि-अत्र पक्षधर्मः सादृश्यं वा परिकल्प्यते, परिदृश्यमानो गवयादि । तच्च सादृश्यं लिङ्गत्वेन परिकल्प्यमानं गोगतं वा कल्प्येत, गवयगतं वा-इति पक्षद्वयम्। तत्र न तावद् गवादिप्रमेयस्य सादृश्यस्य लिङ्गत्वम्; गवयदर्शनात् प्राक्तनस्यागृहीतत्वात्। न चागृहीतस्य लिङ्गत्वं युक्तम्; अतिप्रसङ्गात्। गवयस्थं तर्हि भविष्यति, तत्र तस्य गृहीतत्वाद्? इत्याहगवये गृह्यमाणं च न गवामनुमापकमिति; व्यधिकरणत्वात्, काकस्य कायादिवत्॥१५३७१५३९॥ [G.447] गवयदर्शनादूर्ध्वं तर्हि गवि गृहीतत्वादेतत्स्थं लिङ्ग भविष्यति? इत्याह
प्रतिज्ञाथैकदेशत्वाद् गोगतस्य न लिङ्गता। ___ गवयश्चाप्यसम्बन्धान गोलिङ्गत्वमृच्छति ॥१५४०॥
सादृश्यस्य प्रमेयत्वान्न युक्तं तस्यैव लिङ्गत्वम्। गवयस्तर्हि लिङ्गं भविष्यति? इत्याह-गवय इति। अत्रापि व्यधिकरणत्वान्न गंवयस्य लिङ्गत्वम् ॥१५४०॥ प्रामाण्यं तर्हि मा भूदुपमानस्य? इत्याह
न चाप्रमाणं तज्ज्ञानमज्ञातार्थप्रकाशनात्। ..... गवयादर्शनात् पूर्वं तत्सादृश्यानवग्रहात्॥१५४१॥
पूर्वं गवयसादृश्यविशिष्टस्य गोरग्रहणात्। अज्ञातस्य सादृश्योपाधेोः प्रकाशनमस्तीति युक्तं प्रामाण्यम् ॥ १५४१॥ प्रमेयेत्यादिना प्रतिविधत्ते
प्रमेयवस्वभावेन नाभिप्रेताऽस्य मानता। भूयोऽवयवसामान्ययोगः सादृश्यमस्ति चेत्॥१५४२॥ सामान्यानि निरस्तानि भूयस्ता तेषु सा कुतः! तैश्च योगः प्रमाणं चेदस्ति तत्प्रतिपादकम् ॥१५४३॥ सामान्यस्य च वस्तुत्वं प्रत्यक्षग्राह्यताऽपि च।
अभावान्यप्रमेयत्वाद्असाधारणवस्तुवत् ॥१५४४॥ प्रमेयाभावात् षट्प्रमाणव्यतिरिक्तप्रमाणवत्, अतो नोपमानं प्रमाणम्। भूयोऽवयवसा१.सिद्ध-पा०, गा०। .. २-२.पा० पुस्तके नास्ति; प्राग्गोगतं हि०- गा० ।