________________
३८०
तत्त्वसंग्रहे प्रतियोगिन्यदृष्टेऽपि यस्मात् तदुपलभ्यते ॥१५३१॥ सामान्यवद्धीत्यादि। सामान्येन तुल्यं वर्तत इति सामान्यवत् । यद्यपि सादृश्यं द्विष्ठम्, तथापि सामान्यवत् प्रत्येकं समाप्तमिति कृत्वा प्रतियोगिनि गवादावदृष्टेऽपि सन्निहितत्वादेकत्राप्युपलभ्यत एव ॥ १५३१॥
स्यादेतत्-यदि सादृश्यं वस्तु भवेत्, तदोपलभ्येत, यावता तदेवास्य वस्तुत्वं सिद्धम्? इत्याह
सादृश्यस्य च वस्तुत्वं न शक्यमपबाधितुम्।
भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥१५३२॥ भूयसां गवादिशृङ्गाद्यवयवसामान्यानां गवयादिजात्यन्तरेणैकव्यक्तिसभवायलक्षणः सम्बन्धः सादृश्यम्। सम्बन्धश्च सम्बन्धिभ्यो नात्यन्तं भिन्नः, सम्बन्धादिप्रत्ययाभावप्रसङ्गात्। सजातीयस्य सर्वावयवसामान्यसद्भावात् सादृश्यं नास्तीति ज्ञापनार्थं जात्यन्तरग्रहणम् ॥ १५३२॥ साम्प्रतमुपमायाः स्वरूपं दर्शयन्नाह
तस्यामेव 'त्ववस्थायां यद्विज्ञानं प्रवर्त्तते। ___ पशुनैतेन तुल्योऽसौ गोपिण्ड इति सोपमा ॥१५३३॥ ..
अनेन परिदृश्यमानेन पशुना सदृशी गौः' इत्येवमाकारं परोक्षगोविषयं यज्ज्ञानमुपजायते, तदुपमानं प्रमाणम् ॥ १५३२॥ प्रमेयमस्य दर्शयन्नाह
तस्माद्यत् स्मर्यते तत्स्यात् सादृश्येन विशेषितम्।
प्रमेयमुपमानस्य सादृश्यं वा. तदाश्रितम् ॥१५३४॥ यस्माद् यथोक्तलक्षणयुक्तमुपमानम्, तस्माद्यद् गवादि स्मर्यते गवयादिसादृश्यविशिष्टम्, तदुपमानस्य प्रमेयम् । यद्वा-सादृश्यमानं गवादिसमाश्रितम् ॥ १५३४ ॥ [G.446] ननु च प्रत्यक्षेण सादृश्यमुपलब्धम्, गौश्च स्मृत्या विषयीकृत एंव, तत् किमन्यदधिकं प्रमेयमस्ति, यदधिगमादुपमानस्य प्रामाण्यं स्यात् ? इत्याह
प्रत्यक्षेणावबुद्धे च सादृश्ये च गवि स्मृते।
विशिष्टस्यान्यतोऽसिद्धरुपमायाः प्रमाणता ॥१५३५॥ यद्यपि प्रत्यक्षेण सादृश्यं गृहीतम्, गौश्च स्मृत्या विषयीकृतः, तथापि सादृश्यविशिष्टस्य गोपिण्डस्यान्यतः प्रत्यक्षात्, स्मरणाच्चासिद्धत्वात्, उपमानस्य तदधिगमे प्रामाण्यम् ॥ १५३५ ॥ अत्रैव दृष्टान्तमाह
प्रत्यक्षेऽपि यथा देशे स्मर्यमाणेऽपि पावके।
विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥१५३६॥ यथा प्रदेशादौ धर्मिणि प्रत्यक्षेऽपि स्मृत्या चाग्नौ गृहीतेऽपि वह्निविशिष्टप्रदेशादिविषयत्वान्नानुमानस्याप्रमाण्यम्, अपि तु प्रमाण्यमेव, तद्वदुपमानस्यापीति ॥ १५३६॥ १. व्यवस्थायाम्-पा०,गा।