________________
प्रमाणान्तरभावपरीक्षा
३७९ २. उपमानविचारः [G.444] उपमानमधिकृत्याह
कीदृग्गवय इत्येवं पृष्टो 'नागरकैर्यदा। ब्रवीत्यारण्यको वाक्यं यथा गौर्गवयस्तथा॥१५२५॥ एतस्मिन्नुपमानत्वं प्रसिद्धं शाबरे पुनः।
अस्यागमाबहिर्भावादन्यथैवोपवर्णितम् ॥१५२६॥ 'कीदृशो मवयः' इत्येवं पृष्टस्य यद् वाक्यम्- 'यादृशो गौस्तादृशो गवयः' इति, अस्य वाक्यस्योपमानत्वं वृद्धनैयायिकानां प्रसिद्धम्। शाबरे तु भाष्ये शबरस्वामिना 'शाब्द एवास्यान्तर्भावान युक्तं पृथक्प्रमाणान्तरत्वमीदृशस्योपमानस्य' इति मत्वाऽन्यादृशमेवोपमानं वर्णितम्- "उपमानमपि सादृश्यमसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति । यथा गवयदर्शनं गोस्मरणस्य" (मी० द० शा० भा० १.१.५) इत्यमुना ग्रन्थेन । १५२५-१५२६ ॥ एनमेव व्याचिख्यासुराह- .
गां दृष्ट्वाऽयमरण्यान्यां गवयं वीक्षते यदा। भूतोऽवयवसामान्यंभाजं वर्तुलकण्ठकम्॥१५२७॥ तदाऽस्य गवये ज्ञानं' रूपमात्रावबोधकम्। प्रत्यक्षमेव यच्चापि विशेषेण विकल्पकम्॥१५२८॥ गवा सदृशरूपोऽयं पशुरित्येतदीदृशम्।
अक्षव्यापारसद्भावे जातः . प्रत्यक्षमिष्यते॥१५२९॥ पूर्व गां दृष्ट्वा पश्चादरण्यं गतो यदा गवयं पश्यति, किंविशिष्टम्? भूयोऽवयवसामान्यभाजम्-भूयास्यवयवसामान्यानि भजत इति कृत्वा, वर्तुलकण्ठकम्=सास्नारहितम्, यदा यत् प्रथमं गवयस्वरूपमात्रग्राहि निर्विकल्पकमालोचनाज्ञानमुत्पद्यते तत्तावत् प्रत्यक्षम्। यच्चापि 'गवा सदृशोऽयं पशुः' इत्येवमाकारं विशेषेण विकल्पयदुत्पद्यते, तदपि प्रत्यक्षमेव; अक्षव्यापारेणोत्पत्तेः ॥ १५२७-१५२९॥ . स्यादेतत्-स्मरणबलादसदेव सादृश्यं विकल्पयदुत्पद्यते, नाक्षव्यापारेण? इत्याशझ्याह- .
तत्र यद्यपि गां स्मृत्वा तज्ज्ञानमुपजायते।
सन्निधेर्गवयस्थत्वाद् भवेदिन्द्रियगोचरम् ॥१५३०॥ यद्यपि स्मृतिपूर्वकं तत्सादृश्यग्राहि ज्ञानम्, तथापि गवयस्थत्वेन सन्निहितत्वात् । [G.445] सादृश्यमिन्द्रियगोचरः। सन्निधिः सनिहितत्वम्। गवयस्थत्वादिति सन्निहितत्वे हेतुः । यस्माद् गवयस्थं सादृश्यम्, तस्मादस्य सन्निधिः ॥१५३०॥
ननु च द्विष्ठत्वात् सादृश्यस्य कथमेकत्र गवयेऽस्य ग्रहणं युक्तम्? इत्याह
__सामान्यवद्धि सादृश्यं प्रत्येकं च समाप्यते। १. नागरिकै:- गा०। २-२. गवयज्ञानं-पा०, गा०।