Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 416
________________ ३९० । तत्त्वसंग्रहे पपत्तिः साधनम्=प्रमाणं यासांतास्तथोक्ताः । न च कारणशक्तिः पूवमेव गृहीता-इति शक्यं वक्तुम्; यस्मादपूर्वास्ताश्च शक्तयो गम्यन्ते सर्वदैव । तेनाधिगतार्थाधिगन्तृत्वं नास्तीति भवत्येव प्रामाण्यम्। तत्रैतत् स्यात्-कार्येण लिङ्गेनानुमेयाः शक्तयः, नार्थापत्तिप्रमाणगम्याः? इत्याहसम्बन्धग्रहणादृतइति । यस्मात् सम्बन्धग्रहणमन्तरेण गम्यन्ते तस्मान्नानुमेयाः ॥१५८७-१५८८॥ तमेव सम्बन्धग्रहणाभावं प्रतिपादयन्नाह२. न चासां पूर्वसम्बन्धो न वाऽन्यो गृह्यतेऽधुना। कार्यैः सह यतः स्यातां पक्षधर्मान्वयाविह ॥१५८९॥ न चासां शक्तीनामनुमानकालात् पूर्वं कार्यैः सह सम्बन्धो गृहीतः, यथा वह्निधूमयोर्महानसादौ; तासामतीन्द्रियत्वात् । अनेनान्वयाभाव उक्तः। नाप्यधुनाऽनुमानकाले गृह्यते सम्बन्धः, अतीन्द्रियत्वादेव। अनेन पक्षधर्माभावः उक्तः। न हि कारणाधारशक्तीनां कार्य धर्मः; अयुक्तेः ॥ १५८९॥ श्रोत्रादिशक्तिपक्षे वा यावान् हेतुः प्रयुज्यते। .. सर्वोऽसावाश्रयासिद्धो धर्म्यसिद्धेः प्रसज्यते ॥ १५९० ॥ किञ्च-यदा श्रोत्रादिगताः शक्तयः पक्षीक्रियन्ते, तदा श्रोत्रादिशक्तिपक्षे यावान् हेतुः प्रयुज्यते शक्तिसाधनाय, सर्वोऽसौ हेतुराश्रयासिद्धः स्यात्; आश्रयभूतानां शक्तीनामसिद्धत्वात् । तस्मात् कार्यार्थापत्तिसाधनाः सर्वाः शक्तयो नानुमेयाः ॥ १५९० ॥ ३. पीनो दिवा न भुंक्ते चेत्येवमादिवचः श्रुतौ। रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते ॥१५९१॥ [G.458] तत्र शाब्दप्रमाणपूर्विकार्थापत्तिर्यथा-'पीनो देवदत्तोऽकृतरसायनो दिवा न भुङ्क्ते' इत्येवमादिवचनश्रवणाद् 'अर्वाग्रात्रौ भुक्ते' इत्येवमाद्यर्थकल्पना ॥ १५९१ ॥ स्यान्मतम्-'पीनो' दिवा न भुंक्ते' इत्यस्यैव वाक्यस्यायमर्थः प्रतीयते-रात्रौ भुङ्क्ते इति? अत आह न रात्र्यादिपदार्थश्च दिवावाक्ये च गम्यते। न दिवादिपदार्थानां संसर्गो रात्रिभोजने ॥१५९२॥ न भेदो येन तद्वाक्यं तस्य स्यात् प्रतिपादकम्। अन्यार्थव्यापृतत्वाच्च न द्वितीयार्थकल्पना॥१५९३॥ तस्माद् वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते। तेनानागामिकत्वेऽपि यत् तद्वाक्यं प्रतीयते ॥१५९४॥ प्रमाणं तस्य वक्तव्यं प्रत्यक्षादिषु यद् भवेत्। न त्वनुच्चरिते वाक्ये प्रत्यक्षं तावदिष्यते ॥१५९५ ॥ नानुमानं न हीदं हि दृष्टान्तेन सह क्वचित्। . यदि त्वनुपलब्धेऽपि सम्बन्धे लिङ्गतेष्यते ॥१५९६ ॥ तदुच्चारणमात्रेण सर्ववाक्यगतिर्भवेत्। १ पोनो देवदत्तो-पास, गाल।

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444