Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 390
________________ ३६४ तत्त्वसंग्रहे अवस्थादेशकालभेदेन पदार्थानां शक्तयो भिन्नाः। अतो न शक्यतेऽनुमानात् तद्भावनिश्चयः कर्तुम्, न ह्येवं शक्यतेऽनुमानात् प्रत्येतुम्-देवदत्तो भारोद्वहनसमर्थो न भवति; देवदत्तत्वाद्, बालावस्थदेवदत्तवदिति। अत्र ह्यवस्थाभेदेन शक्तिभेदसम्भवाद् व्यभिचारः। तथा देशभेदेनामलकीखजूरादीनां रसवीर्यविपाकभेदो दृश्यते, तत्र नैवं शक्यते कर्तुम्सर्वाऽऽमलकी कषायफला, अनुदूयमानामलकीवदिति। तथा कालभेदेन कूपोदकादीनां शीतोष्मादिभेदः सम्भवति, तत्र सर्वा आपः शीता इति [G.427] न शक्यते निश्चयः कर्तुम्। इत्येवमादि। अवस्थादेशकालानमिति 'भेदात्' इत्येतदपेक्ष्य षष्ठी। 'भावानाम्' इति प्रसिद्ध्यपेक्षा । तथा तृणादिषु निश्चितदहनसामर्थ्यस्याग्नेरभ्रपटले तत्सामर्थ्य प्रतिहन्यते, न च तत्रैवमनुमातुं शक्यते-अभ्रपटलमग्निना दह्यते; पार्थिवत्वात्, तृणादिवदिति। तथाऽन्येनान्यथा प्रतिपादितोऽर्थः पुनरभियुक्ततरेणान्येनान्यथा प्रतिपाद्यत इत्यनिष्टा ॥१४५९-१४६१ ॥ अन्यः पुनराह परार्थमनुमानं तु न मानं वक्त्रपेक्षया। अनुवादान्न तेनासौ स्वयमर्थः प्रपद्यते ॥१४६२॥ परार्थमनुमानं वक्त्रपेक्षयाऽनुवादत्वान्न प्रमाणम्। श्रोत्रपेक्षया तु. स्वार्थमेव, को हि विशेषः श्रोत्रद्वारेण तमर्थं प्रतिपद्यते, दर्शनद्वारेण चेति। यथा दर्शनेन्द्रियस्य व्यापारे सति परार्थव्यपदेशो न भवति, एवं श्रोत्रेन्द्रियव्यापारेऽपि मा भूदिति ॥ १४६२ ।। श्रोतृव्यपेक्षयाऽप्येतत् स्वार्थमेवोपपद्यते। श्रोत्रदर्शनमलायाः को विशेषो हि संविदः ॥१४६३॥ न परार्थानुमानत्वं वचसः श्रोत्रपेक्षया। श्रोतृसन्तानविज्ञानहेतुत्वज्ञापकत्वतः ॥१४६४॥ दर्शनम् चक्षुरिन्द्रियम्, दृश्यतेऽनेनेति कृत्वा । संविद इति ज्ञानस्य। तथा न श्रोत्रपेक्षया वचनस्य परार्थानुमानत्वम्, श्रोतृसन्तानवर्त्तिज्ञानहेतुत्वात्, ज्ञापकत्वाद्वा, इन्द्रियवदिति। श्रोतृसन्तानविज्ञानहेतुत्वं च ज्ञापकत्वं चेति द्वन्द्वेन हेतुद्वयनिर्देशः । यथेन्द्रियस्य साक्षाच्च नानुमेयप्रकाशनम्। तस्मादस्याविनाभावसम्बन्धज्ञानवन तत् ॥१४६५॥ यथेन्द्रियस्येति दृष्टान्तनिर्देशः । अयमपरः प्रयोगः-न परार्थानुमानत्वं वचनस्य श्रोत्रपेक्षया, साक्षादनुमेयाऽप्रकाशकत्वात्, अविनाभावसम्बन्धज्ञानवत्। तस्मादिति साक्षादनुमेयाप्रकाशकत्वात्। यस्मात् साक्षादनुमेयाप्रकाशकत्वम्, तस्मान्न श्रोत्रपेक्षया वचसः प्रामाण्यमविनाभावसम्बन्धज्ञानवदिति वाक्यार्थः । अविनाभावः साध्येन, स एव सम्बन्धः, अविनाभावो वा सम्बन्ध: साध्येन यस्य लिङ्गस्य तस्य ज्ञानमिति विग्रहः ॥ १४६५॥ . ___ अथोच्यते परार्थत्वं रेपरव्यापृत्यपेक्षया। तदप्ययुक्तं स्वार्थेऽपि परार्थत्वप्रसङ्गतः ॥१४६६॥ १. ० पेक्षया-पा०, गा०। २-२. पा०, गा० पुस्तकयो स्ति। ३.परव्यावृत्तय०-पा०, गा०।

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444