Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 412
________________ ३८६ तत्त्वसंग्रहे तन्नाम श्रुतमस्येति न ज्ञातुं कश्चन प्रभुः ॥१५६६ ॥ अविद्धकर्णस्त्वाह-"आगमात् सामान्येन प्रतिपद्यते, विशेषप्रतिपत्तिस्तूपमानात्' ( ) इति। अतस्तन्मतमाशङ्कते उपयुक्तोपमानश्चेत् तुल्यार्थग्रहणे सति। विशिष्टविषयत्वेन सम्बन्धमवगच्छति ॥१५६७॥ उपयः ...पमानमतिदेशवाक्यं यस्य स तथोक्तः ॥ १५६७ ।। 'द्रतोयेन श्लोकेनाचष्टे माद्धि स सम्बन्धं वेत्ति सामान्यगोचरम्। विशिष्टविश्यं तं तु विजानात्युपमाश्रयात् ॥१५६८ ॥ विशि' विषयो गवयः ।। १५६८॥ नन्क्त्यिादिना प्रतिविधत्ते नन्वन्यत्र न संज्ञायाः सम्बन्धस्यावबोधने। तस्या अर्थान्तरे बोधो युज्येतेऽतिप्रसङ्गतः॥१५६९॥ [G.453] 'न' इत्यस्य 'युज्यते' इत्यनेन सम्बन्धः । न ह्यन्यत्र संज्ञासम्बन्धप्रतिपत्तौ सत्यां तस्याः संहाया अर्थान्तरे प्रतिपत्तिर्युक्ता; अतिप्रसङ्गात् ।। १५६९ ॥ तमेवातिप्रसङ्गं दर्शयन्नाह न हि चित्राङ्गदे कश्चित् तन्नामग्रहणे सति। कालान्तरेण तं शब्दं वेत्ति चारु. किरीटिनि॥९५७०॥ तस्मात् प्राग् यत्र तेनेदं विकल्पप्रतिविम्बके। ज्ञातं नाम बहिर्बुद्धया सामान्यमिति संज्ञिते ॥१५७१॥ गवयस्योपलम्भेऽपि तत्रैवः प्रतिपद्यते। दृश्यकल्पाविभागज्ञो बाह्य इत्यभिमन्यते ॥१५७२।। अङ्गदः कटकाख्यमाभरणम्। स चित्रोऽङ्गदो यस्यासौ ततोक्तः । न हि चित्राङ्गदो यः सं देवदत्त इत्युक्तः कश्चित् कालान्तरेण तं चित्राङ्गदशब्दं चारुकिरीटिनि यज्ञदत्ते प्रतिपद्यते। किरीटम्मुकुटम्, चारु च तत् किरीटं यस्यास्ति स तथोक्तः। तस्मान्मा भूदतिप्रसङ्ग इति यत्रैवार्थे विकल्पसमारोपिते बाह्यार्थव्यवसायिन्या बुद्ध्या गृहीतं नाम संज्ञा,गवयोपलम्भेऽपि तत्रैव तन्नाम प्रतिपद्यते, न तु बाह्ये स्वलक्षणे गवयाख्ये। तदेव च विकल्पप्रतिबिम्बकं सामान्यमिति व्यवह्रियते, तत् परपरिकल्पितम्'; तस्य निराकृतत्वात्। कथं तर्हि बाह्यस्वलक्षणाभिमानः? इत्याह-दृश्येत्यादि ॥ १५७०-१५७२ ॥ अथ स्वलक्षणे शब्दादिप्रवृत्तौ को विरोधः? इत्याह एवं च प्रतिपत्तव्यं यत्स्वलक्षणगोचराः। ' विकल्पा ध्वनयश्चापि विस्तरेण निराकृताः ॥१५७३॥ १. ०तुल्यत्व०-पा०, गा० । २. ह्यर्थान्तरे- पा०, गा०। ३. पा०, गा० पुस्तकयो स्ति। ४. कालान्तरे- पा०, गा०/ ५.परिकल्पितम्-पा०, गा० ।

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444