Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 401
________________ प्रमाणान्तरभावपरीक्षा 44 द्वितीयेऽपि यद्वा प्रत्ययितोदितात्" (तत्त्व० १४९८) इत्येतस्मिन् शाब्दलक्षणेऽसम्भवितां लक्षणदोषमाह -.. आप्तानङ्गीकृतेरेव द्वितीयमपि न क्षमम् । शाब्दलक्षणमिष्टो वा सोऽयमित्यविनिश्चितः ॥ १५०९ ॥ ३७५ मीमांसकै: क्षीणदोषपुरुषानभ्युपगमादाप्तो नाङ्गीकृत एवेति कुतस्तद्वचनस्य प्रामाण्यं स्यात् ! न क्षममिति न युक्तम् । असम्भवीति यावत् । अथाप्याप्त इष्यते, तदा तस्याप्तस्येष्टौ सत्यां शृङ्गग्राहिकया 'अयमसौ' इति असावाप्तो' न निश्चित इत्यसत्प्रख्य एव । न ह्यन्यगुणदोषनिश्चये प्रमाणमस्ति ; तेषामतीन्द्रियत्वात् । कायवाग्व्यवहाराश्चान्यथाऽपि बुद्धिपूर्वं क्रियन्त इति कुतस्तद्वचनस्य प्रामाण्यम्, असाङ्कर्येणार्वाग्दर्शिभिस्तेषामनवधारणात् ॥ १५०९ ॥ प्रायः सम्प्रत्ययो दृष्टो यद्वाक्यात् तस्य गृह्यते । परोक्षप्रतिपत्त्यर्थं वाक्यं प्रत्ययतः स चेत् ॥ १५१० ॥ नान्यत्र प्रत्ययाभावात् पूर्वसम्प्रत्ययेऽपि हि । एकत्रास्खलिते तत्र सर्वत्र नियमो न हि ॥ १५११ ॥ अथापि स्याद्-यस्य पुरुषस्याक्षीणंदोषस्यापि सतो वाक्याद्बाहुल्येन सम्प्रत्ययो दृष्टः, सोऽस्माभिः प्रत्ययित इष्टो य क्षीणदोषः, तस्मात् तस्य प्रत्ययितस्य वाक्यं गृह्यते; [G.440] शाब्दलक्षणे तेनासम्भविता न सम्भवतीति ? एतदप्यसम्यक्; न ह्येकत्राविसंवादमात्रोपलम्भात् सर्वत्र तथाभावनियमो युक्तः; व्यभिचारस्य सम्भाव्यमानत्वाद्, अन्यथा व्यभिचारिलक्षणं स्यात् ॥ १५१०-१५११ ॥ एवं तावद् द्विप्रकारमपि शाब्दलक्षणं विशेषेण दुष्टं प्रतिपाद्य सामान्यं दूषणमाहवचसां प्रतिबन्धो वा को बाह्येष्वस्ति' वस्तुषु । प्रतिपादयतां तानि येनैषां स्यात् प्रमाणता ॥ १५१२ ॥ न हि वाच्यैर्वस्तुभिः सहकश्चित् तादात्म्यलक्षणः, तदुत्पत्तिलक्षणो वा प्रतिबन्धो वचसामस्ति, येन तानि वस्तूनि प्रतिपादयतामेषां वचसां प्रामाण्यं स्यात् । तत्र तावन्न तादात्म्यलक्षण: प्रतिबन्धोऽस्ति भिन्नाक्षग्रहणादिभ्यो हेतुभ्यस्तत्र भिन्नाक्षग्रहणं भिन्नेन्द्रियेण ग्रहणम् । तथा हि— श्रोत्रेन्द्रियेण शब्दो गृह्यते, अर्थस्तु चक्षुरादिना । आदिशब्देन कालदेशप्रतिभासकारणभेदो गृह्यते। - कुमारिलस्त्वाह–भिन्नेन्द्रियग्राह्यत्वाद्भिन्नमित्यनैकान्तिकमेतत् । तथाहि – एकं रूपं यदा बहवः पश्यन्ति तदा भिन्नेन्द्रियग्राह्यत्वाद्रूपस्य भेदः प्राप्नोति । अथापि स्यात् - चक्षुरिन्द्रियजातेरभेदादेकेन्द्रियग्राह्यत्वमेवेति ? एवं तर्हि सत्ताया अनेकेन्द्रियग्राह्यत्वेऽपीन्द्रियजातेरभेदादभिन्नेन्द्रियग्राह्यत्वमस्तीति सिद्धमेकत्वम् । तस्माद् बुद्धिभेदाभेदाभ्यां पदार्थभेदाभेदव्यवस्था, नेन्द्रियभेदाभेदाभ्यामिति । आह च "न चानेकेन्द्रियग्राह्यं भिन्नतां प्रतिपद्यते । मां भूद् भिन्नशरीरस्थग्राह्यत्वाद् रूपभिन्नता ॥ १- १. ० यमसावित्यासो— पा०, गा० । २. पूर्वमप्रत्ययो०- पा०, गा० । ३. बाह्येष्वपि - पा०, गा० ।

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444