Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 407
________________ प्रमाणान्तरभावपरीक्षा ३८१ . अथापि स्याद्-भवतु प्रमाणमुपमानम्, तत् कथं प्रत्यक्षादेः पृथक् प्रमाणम्? इत्याह न हि प्रत्यक्षता तस्य विज्ञानस्योपपद्यते। • इन्द्रियार्थाभिसम्बन्धव्यापारविरहात् तदा ॥१५३७॥ त्रैस्वप्यानुपपत्तेश्च न च तस्यानुमानता। पक्षधर्मादि नैवात्र कथञ्चिदवकल्पते ॥१५३८॥ प्राक् प्रमेयस्य सादृश्यं न धर्मत्वेन गृह्यते। गवये गृह्यमाणं च न गवामनुमापकम् ॥१५३९॥ न तावत् प्रत्यक्षं युक्तम् इन्द्रियार्थाभिसम्बन्धेनानुत्पत्तेः । नाप्यनुमानम्; त्रैरूप्याभावात्। तथा हि-अत्र पक्षधर्मः सादृश्यं वा परिकल्प्यते, परिदृश्यमानो गवयादि । तच्च सादृश्यं लिङ्गत्वेन परिकल्प्यमानं गोगतं वा कल्प्येत, गवयगतं वा-इति पक्षद्वयम्। तत्र न तावद् गवादिप्रमेयस्य सादृश्यस्य लिङ्गत्वम्; गवयदर्शनात् प्राक्तनस्यागृहीतत्वात्। न चागृहीतस्य लिङ्गत्वं युक्तम्; अतिप्रसङ्गात्। गवयस्थं तर्हि भविष्यति, तत्र तस्य गृहीतत्वाद्? इत्याहगवये गृह्यमाणं च न गवामनुमापकमिति; व्यधिकरणत्वात्, काकस्य कायादिवत्॥१५३७१५३९॥ [G.447] गवयदर्शनादूर्ध्वं तर्हि गवि गृहीतत्वादेतत्स्थं लिङ्ग भविष्यति? इत्याह प्रतिज्ञाथैकदेशत्वाद् गोगतस्य न लिङ्गता। ___ गवयश्चाप्यसम्बन्धान गोलिङ्गत्वमृच्छति ॥१५४०॥ सादृश्यस्य प्रमेयत्वान्न युक्तं तस्यैव लिङ्गत्वम्। गवयस्तर्हि लिङ्गं भविष्यति? इत्याह-गवय इति। अत्रापि व्यधिकरणत्वान्न गंवयस्य लिङ्गत्वम् ॥१५४०॥ प्रामाण्यं तर्हि मा भूदुपमानस्य? इत्याह न चाप्रमाणं तज्ज्ञानमज्ञातार्थप्रकाशनात्। ..... गवयादर्शनात् पूर्वं तत्सादृश्यानवग्रहात्॥१५४१॥ पूर्वं गवयसादृश्यविशिष्टस्य गोरग्रहणात्। अज्ञातस्य सादृश्योपाधेोः प्रकाशनमस्तीति युक्तं प्रामाण्यम् ॥ १५४१॥ प्रमेयेत्यादिना प्रतिविधत्ते प्रमेयवस्वभावेन नाभिप्रेताऽस्य मानता। भूयोऽवयवसामान्ययोगः सादृश्यमस्ति चेत्॥१५४२॥ सामान्यानि निरस्तानि भूयस्ता तेषु सा कुतः! तैश्च योगः प्रमाणं चेदस्ति तत्प्रतिपादकम् ॥१५४३॥ सामान्यस्य च वस्तुत्वं प्रत्यक्षग्राह्यताऽपि च। अभावान्यप्रमेयत्वाद्असाधारणवस्तुवत् ॥१५४४॥ प्रमेयाभावात् षट्प्रमाणव्यतिरिक्तप्रमाणवत्, अतो नोपमानं प्रमाणम्। भूयोऽवयवसा१.सिद्ध-पा०, गा०। .. २-२.पा० पुस्तके नास्ति; प्राग्गोगतं हि०- गा० ।

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444