Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 409
________________ ३८३ प्रमाणान्तरभावपरीक्षा अभ्युपगम्य सादृश्यस्य वस्तुत्वं परमतेनैवोपमानाप्रमाण्यमाह अस्तु वा वस्तु सादृश्यं तत्तु सामान्यवद् गवि। प्रतियोगिन्यदृष्टेऽपि दृष्टमेव पुरःस्थितम् ॥१५५०॥ • तथापि' स्मृतिरूपत्वं न कथञ्चित्रिवर्तते। सत्तामात्रेण विज्ञानं सादृश्यं च गवात्मनि ॥१५५१॥ गवयेन तु सादृश्यमित्येवं न निश्चितम्। प्रमिणोत्युपमा त्वे वैलक्षण्यं ततः स्मृतेः ॥१५५२॥ भवतु सादृश्यम्, वस्तुगति च सामान्यमिव सर्वात्मना परिसमाप्तम्, तथा [G.449] गवयदर्शनात् पूर्वं गवि प्रागवस्थिते प्रत्यक्षेण गृह्यमाणे ततोऽव्यतिरेकात् तदपि पुरोऽवस्थितं सादृश्यं गृहीतमेव, गोस्वरूपवत्। अन्यथा ह्यव्यतिरेको न सिध्यति । ततश्च गृहीतग्रहणात् स्मृतिरूपत्वान प्रमाणम्। अथापि स्यात्-सत्तामात्रेण पूर्वं सादृश्यं गृहीतम्, एवं तद्गवयेनैतत् सादृश्यं गोरित्यत्तेन रूपेण ने गृहीतम्; उपमानं त्वनेनाकारेण प्रमिणोति, ततः स्मृतिरूपत्वमसिद्धमिति ? ॥ १५५०-१५५२॥ तत्राह- . . यदि नाम गृहीतं नो नाम्ना तेनैव तत् पुरा। गृहीतं तु स्वरूपेण यदस्यात्माऽभिधीयते ॥१५५३॥ यदि नाम गवयेन सादृश्यमित्यनेन नाम्ना विशिष्टं गोद्रव्यं गवयदर्शनात् पूर्वं न गृहीतम्, स्वरूपेण तु गृहीतमेव । यस्तस्य स्वभावः स गृहीत इति यावत्। किं तत्स्वरूपम्? इत्याह- यदस्यात्माभिधीयतइति । यत्स्वरूपं तस्य गोपिण्डस्यात्मेत्यभिधीयते । तेन स्वरूपेण स्वभावलक्षणेन तद् गृहीतमिति यावत् || १५५३॥ यदि नाम गृहीतम्, ततः किम्? इत्याह: न नाम रूपं वस्तूनां यत् तस्याग्रहणे सति। . . परिज्ञातात्मतत्त्वानामप्यविज्ञानता भवेत् ॥१५५४॥ न हि वस्तूनां स्वरूपं नाम भवति, येन तस्य नाम्नः पूर्वमग्रहणे गृहीतस्यापि वस्तुनो न ग्रहणं स्यात्। विशेषतश्च निश्चयात्मकप्रत्यक्षवादिनो न गृहीतमित्येवं न युक्तं वक्तुम् ॥१५५४॥ एतावता च लेशेन प्रमाणत्वव्यवस्थितौ। नेयत्ता स्यात् प्रमाणानामन्यथाऽपि प्रमाणत: ॥१५५५॥ [G.450] किञ्च-अनेन तुल्य इति ज्ञानादेतावता लेशेन प्रमाणान्तरकल्पनायामतिप्रसङ्गः स्यात्। "प्रत्यक्षमनुमानं च शाब्दं चोपमया सह । २. विज्ञातं- पा०, गा०। ३-३.०मुपमानं तु-पा०, गा०।। ४. पुरोऽवस्थिते- पा०, गा०। ५. गृहीतम्-पा०, गा० । ६. एतद्गवये०-पा०, गा०। ७. विजातता-पा०, गा०। प्रसङ्गत:-जे० पुस्तके पाठा० । १.तथा च-पा०, गा०/

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444