________________
प्रमाणान्तरभावपरीक्षा
44
द्वितीयेऽपि यद्वा प्रत्ययितोदितात्" (तत्त्व० १४९८) इत्येतस्मिन् शाब्दलक्षणेऽसम्भवितां लक्षणदोषमाह -..
आप्तानङ्गीकृतेरेव द्वितीयमपि न क्षमम् ।
शाब्दलक्षणमिष्टो वा सोऽयमित्यविनिश्चितः ॥ १५०९ ॥
३७५
मीमांसकै: क्षीणदोषपुरुषानभ्युपगमादाप्तो नाङ्गीकृत एवेति कुतस्तद्वचनस्य प्रामाण्यं स्यात् ! न क्षममिति न युक्तम् । असम्भवीति यावत् । अथाप्याप्त इष्यते, तदा तस्याप्तस्येष्टौ सत्यां शृङ्गग्राहिकया 'अयमसौ' इति असावाप्तो' न निश्चित इत्यसत्प्रख्य एव । न ह्यन्यगुणदोषनिश्चये प्रमाणमस्ति ; तेषामतीन्द्रियत्वात् । कायवाग्व्यवहाराश्चान्यथाऽपि बुद्धिपूर्वं क्रियन्त इति कुतस्तद्वचनस्य प्रामाण्यम्, असाङ्कर्येणार्वाग्दर्शिभिस्तेषामनवधारणात् ॥ १५०९ ॥ प्रायः सम्प्रत्ययो दृष्टो यद्वाक्यात् तस्य गृह्यते । परोक्षप्रतिपत्त्यर्थं वाक्यं प्रत्ययतः स चेत् ॥ १५१० ॥ नान्यत्र प्रत्ययाभावात् पूर्वसम्प्रत्ययेऽपि हि । एकत्रास्खलिते तत्र सर्वत्र नियमो न हि ॥ १५११ ॥
अथापि स्याद्-यस्य पुरुषस्याक्षीणंदोषस्यापि सतो वाक्याद्बाहुल्येन सम्प्रत्ययो दृष्टः, सोऽस्माभिः प्रत्ययित इष्टो य क्षीणदोषः, तस्मात् तस्य प्रत्ययितस्य वाक्यं गृह्यते; [G.440] शाब्दलक्षणे तेनासम्भविता न सम्भवतीति ? एतदप्यसम्यक्; न ह्येकत्राविसंवादमात्रोपलम्भात् सर्वत्र तथाभावनियमो युक्तः; व्यभिचारस्य सम्भाव्यमानत्वाद्, अन्यथा व्यभिचारिलक्षणं स्यात् ॥ १५१०-१५११ ॥
एवं तावद् द्विप्रकारमपि शाब्दलक्षणं विशेषेण दुष्टं प्रतिपाद्य सामान्यं दूषणमाहवचसां प्रतिबन्धो वा को बाह्येष्वस्ति' वस्तुषु ।
प्रतिपादयतां तानि येनैषां स्यात् प्रमाणता ॥ १५१२ ॥
न हि वाच्यैर्वस्तुभिः सहकश्चित् तादात्म्यलक्षणः, तदुत्पत्तिलक्षणो वा प्रतिबन्धो वचसामस्ति, येन तानि वस्तूनि प्रतिपादयतामेषां वचसां प्रामाण्यं स्यात् । तत्र तावन्न तादात्म्यलक्षण: प्रतिबन्धोऽस्ति भिन्नाक्षग्रहणादिभ्यो हेतुभ्यस्तत्र भिन्नाक्षग्रहणं भिन्नेन्द्रियेण ग्रहणम् । तथा हि— श्रोत्रेन्द्रियेण शब्दो गृह्यते, अर्थस्तु चक्षुरादिना । आदिशब्देन कालदेशप्रतिभासकारणभेदो गृह्यते।
-
कुमारिलस्त्वाह–भिन्नेन्द्रियग्राह्यत्वाद्भिन्नमित्यनैकान्तिकमेतत् । तथाहि – एकं रूपं यदा बहवः पश्यन्ति तदा भिन्नेन्द्रियग्राह्यत्वाद्रूपस्य भेदः प्राप्नोति । अथापि स्यात् - चक्षुरिन्द्रियजातेरभेदादेकेन्द्रियग्राह्यत्वमेवेति ? एवं तर्हि सत्ताया अनेकेन्द्रियग्राह्यत्वेऽपीन्द्रियजातेरभेदादभिन्नेन्द्रियग्राह्यत्वमस्तीति सिद्धमेकत्वम् । तस्माद् बुद्धिभेदाभेदाभ्यां पदार्थभेदाभेदव्यवस्था, नेन्द्रियभेदाभेदाभ्यामिति । आह च
"न चानेकेन्द्रियग्राह्यं भिन्नतां प्रतिपद्यते । मां भूद् भिन्नशरीरस्थग्राह्यत्वाद् रूपभिन्नता ॥
१- १. ० यमसावित्यासो— पा०, गा० । २. पूर्वमप्रत्ययो०- पा०, गा० ।
३. बाह्येष्वपि - पा०, गा० ।