________________
३७४
तत्त्वसंग्रहे अज्ञातसमयस्यापि भवेदर्थगतिस्ततः॥१५०४॥
प्रकृत्या दीपको दीपो न सङ्केतमपेक्षते। एवं तर्हि यदि प्रकृत्याऽस्य वेदस्य भूतार्थद्योतने शक्तिः स्थिता, तदा सङ्केतानभिज्ञस्यापि ततो वेदवाक्यादर्थप्रतीतिः प्राप्नोति । सङ्केतसापेक्षो वेदोऽर्थप्रतीतिहेतुः, न केवल इति चेत् ? तन्न; न हि प्रकृत्याऽर्थप्रतीतिहेतवो दीपादयः सङ्केतमपेक्षन्ते। अन्यथा सङ्केतस्यैवान्वयव्यतिरेकाभ्यामर्थप्रतीतौ सामर्थ्यं स्यात्, न स्वाभाविकस्य सम्बन्धस्य। किञ्च-भवतु नाम सङ्केतसहायादर्थप्रतीतिः, तथापि दोष इत्याह
समयान्तरभावे च 'न स्यादर्थान्तरे' गतिः॥१५०५॥ न हि संकेतभावेऽपि दीपो गन्धरसादिकम्। .....
प्रकाशयति विज्ञातुं सा शक्तिर्न च शक्यते॥१५०६॥ मीमांसकोपरचितात् समयान्निरुक्तकाराद्युपरचितः समयः समयान्तरम्, तस्य सद्भावे सति प्रकृतादर्थादर्थान्तरे ततः शब्दात् प्रतीतिर्न प्राप्नोति । न हि प्रदीपोऽप्रकाश्यं गन्धरसादिकं सङ्केतवशात् प्रकाशयितुमीशः। भवतु नामार्थान्तरे वृत्तिः सनयवशात्; तथापि प्रामाण्यं न सिध्यतीति प्रतिपादयति-विज्ञातुमिति। पुरुषेच्छावशाद् यद्यर्थान्तरेऽपि शब्दस्य प्रवृत्तिः, तदा साङ्कर्यात् सा भूतार्थद्योतनशक्तिर्निश्चेतुं न शक्यते-इति कथं तत इष्टार्थप्रतिपत्तिर्भवेत्!
___ अथ वाऽन्यथा व्याख्यायते-यासौ प्रकृत्या भूतार्थद्योतनशक्तिः, सा कदाचिदेकार्थनियता वा स्याद्, अनेकार्थनियता वेति पक्षद्वयम्। तत्रैकार्थनियमपक्षे दोषमाह-समयान्तरभाव इति। द्वितीयेऽप्याह-विज्ञातुं सा शक्तिर्न च शक्यत इति। साङ्कर्यादिति भावः । यथोक्तम्
"गिरामेकार्थनियमें न स्यादर्थान्तरे गतिः। __ अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः ॥"
. (प्र० वा० ३.२२८) इति ॥ १५०३-१५०६ ॥ एवं प्रथमं शाब्दलक्षणमसम्भवीति प्रतिपाद्य, "अकम्पज्ञानजन्मतः" (तत्त्व० १४९८) इत्यस्य हेतोरसिद्धतामुपसंहारेण दर्शयन्नाह
___ अतोऽर्थप्रत्ययायोगात् तस्य निःकम्पता कुतः।
स तु सामयिको युक्तः पुंवाग्भूतान्न भिद्यते॥१५०७॥ |G.439) अपौरुषेयत्वे सति यथोक्तनीत्याऽर्थप्रतीतिरेव न सम्भवति यदा, तदा कुतस्तस्या अकम्पत्वम् ! यश्चायमर्थप्रत्ययो भवनुपलभ्यते वेदवाक्यात्, स तु साङ्केतिक एव युक्त इति पूर्वं प्रतिपादितम्- "एषा व्याख्यानतो भवेत्" (तत्त्व० १५०३) इत्यादिना ॥ १५०७॥
___ इतश्चायं साङ्केतिक एव युक्त इति; यस्माद् वैदिकं वाक्यं पुंवाग्भूतात्= पुंवाक्त्वप्राप्तात्, न भिद्यते। पौरुषेयवचनान्न भिद्यते इति यावत्। एतदपि कुतः? इत्याह
न्यायज्ञैर्न तयोः कश्चिद् विशेषः प्रतिपद्यते।।
श्रोत्रियाणां त्वकम्पोऽयमज्ञातन्यायवर्त्मनाम्॥१५०८॥ तयोरति वैदिकपौरुषेययोः । सर्वप्रकारेण पुरुषैः शक्यकरणत्वान्न कश्चिद् विशेषो वैदिकस्य लौकिकात्। श्रोत्रियाणामित्युपहसति ॥ १५०८॥ . ११. तस्माद-पा०, गा० । २. पौरुषेयत्वाद्वचनान-पा०, गा०। ३. न्यायज्ञो न-जै।