________________
प्रमाणान्तरभावपरीक्षा
३७३ चाकर्तृकं वाक्यं ज्ञानजनने सर्वकालमिति स्वभावहेतुः। अथ वा-यदविकलकारणम्, तद्भवत्येव, यथाऽविकलकारणोऽङ्करः । अविकलकारणं चापौरुषेयवाक्यभाविविज्ञानमिति स्वभावहेतुः। द्वितीयेऽपि पक्षे तस्याशक्तस्य स्वभावस्य सर्वकालमुनवर्त्तनात् न कदाचित् तद्भावि विज्ञानं स्यात्, तथा विकलकारणोऽङ्करः ॥ १५००॥ [G.437] कथमर्थवत्त्वं न सङ्गच्छते? इत्याह
द्वेषमोहादयो दोषा यथा मिथ्यात्वहेतवः । कृपाप्रज्ञादयोऽप्येवं ज्ञाताः सत्यत्वहेतवः ॥१५०१॥ तदाश्रयनराभावे न तयोरपि सम्भवः।
आनर्थक्यमतः प्राप्तं वचस्यपुरुषाश्रये ॥१५०२॥ द्वाभ्यां प्रकाराभ्यामर्थवत्ता भवति-अविपरीतार्थत्वेन', विपरीतार्थत्वेन वा; तृतीयराश्यभावात्। तस्याश्च बुद्धेर्द्विप्रकाराया अप्यर्थवत्ताया गुणदोषौ कारणमित्यन्वयव्यतिरेकाभ्यां निश्चितम्। तथा हि-यथा रागादिदोषपरीतपुरुषो मृषावादी दृष्टः, तथा कृपादिगुणयुक्तः सत्यवाग् दृष्टः । तयोश्च गुणदोषयोः सम्यक्त्व-मिथ्यात्वहेत्वोराश्रयः पुरुषः, ततश्च पुरुषनिवृत्तौ गुणदोषयोः सम्यक्त्व-मिथ्यात्वहेत्वोराश्रयः पुरुषः, ततश्च पुरुषनिवृतौ गुणदोषनिवृत्तिः, गुणदोनिवृत्तौ सम्यक्त्वमिथ्यात्वयोरप्यभावः, तदभावे प्रकारान्तरासम्भवादानर्थक्यमपौरुषेयवचसि प्राप्तम्; कारणाभावात्। न हि कारणमन्तरेण कार्यस्य सम्भवो युक्तः, निर्हेतुत्वप्रसङ्गात्। ततश्च देशकालद्रव्यादिनियमो न स्यात्। ।
प्रसङ्गसाधनमेतद् द्रष्टव्यम्। अन्यथा हि स्वातन्त्र्येण साधने दृष्टविरोध: स्यात् । तथा हि-"अग्निहोत्रं जुहुयात् स्वर्गकामः" (. . ) इत्यादिवाक्यादर्थप्रतीतिर्भवन्त्युपलभ्यत एव, न च दृष्टमपह्रोतुं शक्यते। न चाकर्तृकत्वमुभयसिद्धमित्यसिद्धश्च हेतुः स्यात् । प्रसङ्गसाधने तु द्वयमप्यदुष्टम्। तथा हि-यद्यमौरुषेयत्वमभ्युपगम्यते वेदस्य, तदाऽऽनर्थक्यमभ्युपगन्तव्यम्; अर्थवत्त्वहेतोः पुरुषस्याभावात् । न चानर्थक्यम्, अतः स्यात् पौरुषेय एवेति प्रसङ्गेन प्रदर्श्यते ॥ १५०१-१५०२॥ एतदेव प्रसङ्गसाधनं समर्थयितुं दृष्टविरोधाभावं प्रतिपादयन्नाशङ्कापूर्वकमाह
अर्थप्रतीतितो नो चेदेषा व्याख्यानतो भवेत्।
स्वतन्त्रो हि पुमान् दृष्टो व्याचक्षाणोऽर्थमिच्छया॥१५०३॥ [G.438] नो चेदिति। आनर्थक्यमिति सम्बन्धः । ततश्च दृष्टविरोधः प्रतिज्ञाया इति भावः । सत्यं स्याद् दृष्टविरोधो यदि वेदादेवार्थप्रतीतिरुपदेशमन्तरेणोपजायेत, यावतैषाऽर्थप्रतीति
ाख्यातुः सकाशात् समयवशाद् भवेत्, न वेदात् केवलात् समयनिरपेक्षात्। तथा हिवेदार्थं मीमांसकादिः स्वेच्छया व्याचक्षाणो इष्टः, न च स्वाभाविकस्यार्थस्य पुरुषेच्छानुरोधित्वं युक्तम्। तत्रैतत् स्यात्-न हि पुरुषेणापूर्वोऽर्थः स्वेच्छया कथ्यते, किं तर्हि ? य एव हि स्वाभाविको व्यवस्थितः, स एव पुरुषेण प्रकाश्यते इति तेन भवत्येव दृष्टविरोध इति ॥ १५०३ ॥
- भूतार्थद्योतने शक्तिः प्रकृत्यैव स्थिताऽस्य चेत्। १. नुवर्तनाच्च-पा०, गा।
२. जै०, पा० पुस्तकयो स्ति।