________________
३७२
तत्त्वसंग्रहे. देशे काले वा तस्य' शब्दस्य दृष्टत्वात्।व्यतिरेक:-साध्याभावे साधनाभावः, तस्य अगतेरिति अनुपलम्भात्। नित्यविभुत्वादेव ॥ १४९६ ॥ तस्मादित्युपसंहृत्य प्रमाणं दर्शयति
तस्मादननुमानत्वं शाब्दे प्रत्यक्षवद् भवेत्।
त्रैरूप्यरहितत्वेन तादृ ग्विषयवर्जनात्॥१४९८॥ अननुमानत्वं शाब्द इति साध्यनिर्देशः। त्रैरूप्यरहितत्वेनेति हेतुः। प्रत्यक्षवदिति दृष्टान्तः। तादृग्विषयवर्जनादिति हेतुसमर्थनम्। यादृशो धूमादिलिङ्गजस्यानुमानस्य विषये धर्मविशिष्टो धर्मी, तेन तादृशा विषयेण वर्जनात्, रहितत्वादिति यावत् ॥ १४९७ ॥
भवतु नाम त्रैरूप्यरहितत्वादनुमानादन्यत्वम्, प्रामाण्यं त्वस्य शब्दस्य कथम् इत्याह
अग्रिहोत्रादिवचनादकम्पज्ञानजन्मतः ।
तत्प्रमाणत्वमप्यस्य निराकर्तुं न पार्यते॥१४९८ ॥... [G.436] संशयविपर्यासरहितत्वादकम्पम् निश्चलम् । बाधकप्रमाणाभावात् प्रमाणं प्रत्यक्षादिवदिति यावत्। तथा चाह शबरस्वामी-"न च स्वर्गकामो यजेतेत्यतों वचनात् सन्दिग्धमवगम्यते-भवति वा स्वर्गः, न वा भवतीति । न च निश्चितमवगम्यमानमिदं मिथ्या स्यात् यो हि जनित्वा प्रध्वंसते नैतदेवमिति स मिथ्याप्रत्ययः, न चैष देशान्तरे, कालान्तरे, पुरुषान्तरे, अवस्थान्तरे विपर्येति, तस्मादवितथः । यत्तु लौकिकं वचनं तच्चेत् प्रत्ययितात् पुरुषादिन्द्रियविषयं वा, तदवितथमेव। अथाप्रत्ययितादतीन्द्रियविषयं वा तत्पुरुषबुद्धिप्रभवमप्रमाणम्, अशक्यं हि पुरुषमात्रेण ज्ञातुमृते वचनात्" (मी० द० शा० भा० १.१.२) इति ॥ १४९८॥ , तत्रेत्यादिना "तच्चाकर्तृकतो वाक्यात्" (तत्त्व० १४८८) इत्येतस्मिन् प्रथमे शाब्दे लक्षणेऽसम्भवितां लक्षणदोषमाह-
, तत्राकर्तृकवाक्यस्य सम्भववार्थावसङ्गतौ।
तस्मादसम्भवि. प्रोक्तं प्रथमं शाब्दलक्षणम्॥१४९९॥ अकर्तृकस्य हि वाक्यस्य सम्भवो नास्त्येव; व्यापिनः क्षणभङ्गस्य साधितत्वात्। वक्ष्यमाणयुक्त्या वा। सत्यपि वा सम्भवे न तस्यार्थवत्त्वं सम्भवति, अतोऽकर्तृकाद् वचनात् परोक्षोऽर्थोऽयं ज्ञानमित्यस्यासम्भवादसम्भवि प्रमाणलक्षणम् ॥ १४९९ ॥ कथं पुनरकर्तृकं वाक्यं नास्ति? इत्याह
शक्ताशक्तस्वभावस्य सर्वदा ह्यनुवर्त्तनात्।
तदा तद्भाविविज्ञानं भवेन्नो वा कदाचन ॥१५००॥ तत्राकर्तृकं वाक्यं भवत् शक्तं वा स्यात् ज्ञानजनने, कदाचिदशक्तं वा-इति पक्षद्वयम्। प्रथमे पक्षे तस्य शक्तस्य स्वभावस्यानुवर्तनान्नित्यं तद्भाविविज्ञानं प्राप्नोति। तत्र प्रयोग:यदप्रतिबद्धसामर्थ्य यस्मिन् कर्त्तव्ये, तत्करोत्येव, यथाऽन्त्या कारणसामग्री। अप्रतिबद्धसामर्थ्य १. सर्व०-पा०, गा०/
२. जै०, पा०, गा० पुस्तकेषु नास्ति। ३. ज्ञात इत्यस्या०-पा०, गा०।
४. पा०, गा० पुस्तकयो स्ति।