________________
३७६
प्रमाणान्तरभावपरीक्षा यश्चात्र कल्प्यते धर्मी प्रमेयोऽस्य स एव च।
न चानवधृते तस्मिस्तद्धर्मत्वावधारणा॥१४९१॥ यश्चात्र शाब्दे कल्प्यते वृक्षादिधर्मी, स एव प्रमेयः तस्यैव प्रतिपाद्यत्वात् । धर्म्यवात्र प्रमेयः, न धर्मविशिष्टो धर्मीति यावत् । तस्मिन् धर्मिणि अनवधृते अनिश्चिते कथं तद्धर्मत्वं निश्चीयते ॥ १४९१॥
प्राक्स चेत् पक्षधर्मत्वाद् गृहीतः किं ततः परम्।
पक्षधर्मादिभितैिर्येन स्यादनुमानता॥१४९२॥ किञ्च-यदि चासौं धर्मी पक्षधर्मत्वनिश्चयात् प्राग् ज्ञातः, तदा निष्फलः पक्षधर्मत्वादिनिश्चये प्रयत्नः । धर्मिप्रतिपत्त्यर्थो हि सर्वः प्रयासः, स चेत् प्रतिपन्नः, किमिदानी पक्षधर्मत्वादिनिरूपणप्रयासेन! अभ्युपगम्य चैतदभिहितम्। न च शब्दो वृक्षादेर्धर्मिणो धर्मः; वक्तृदेशेऽवधार्यमाणत्वात् ॥ १४९२ ॥ एवं तावत् पक्षधर्मत्वाभावः प्रतिपादितः । इदानीमन्वयाभावं प्रतिपादयन्नाह
__ अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते।
___ व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते॥१४९३॥ निरूप्यत इति निश्चीयते। व्यापारेणेति सद्भावेन, सत्तयेति यावत्। एतदुक्तं भवतिविद्यमानस्यैवान्वेतृत्वम्, नाविद्यमानस्येति ॥ १४९३॥ एतदेव दर्शयन्नाह
[G.435] यत्र धूमोऽस्ति तत्राग्रस्तित्वेनान्वयः स्फुटम्।
न त्वेवं यत्र शब्दोऽस्ति तंत्रार्थोऽस्तीति निश्चितम्॥१४९४॥ यत्र धूमस्तत्रावश्यं ततो वह्रिरित्यतोऽसौ वह्निरन्वेता भवति धूमस्य, न त्वेवं शब्दस्यार्थेनान्वयः ॥ १४९४॥.. कथं नास्ति? इति प्रतिपादयन्नाह
न तावत् तत्र देशेऽसौ न तत्काले च गम्यते।
भवेन्नित्यविभुत्वाच्चेत् सर्वशब्देषु तत् समम्॥१४९५ ॥ न तावत् तत्र शब्दाक्रान्ते देशेऽर्थस्य सद्भावः । तथा हि-पिण्डखजूरादिशब्दोऽन्यत्र पाटलिपुत्रादौ श्रूयते, न च तत्र देशे पिण्डखजूरादिरस्ति। तथा नापि शब्दकालेऽर्थोऽवश्यं सम्भवति; दिलीप-महासम्मतदिशब्दा वर्तमानाः, तदर्थस्तु भूतो भविष्यश्चेति कुतोऽथै: शब्दस्यान्वेतृत्वम् !॥ १४९५ ॥
- तेन सर्वत्र दृष्टत्वाद् व्यतिरेकस्य चागतेः।
सर्वशब्दैरशेषार्थप्रतिपत्तिः प्रसज्यते॥१४९६ ॥ अथ मतम्- नित्यत्वाच्छब्दानां सर्वकालमवस्थितेरर्थेन सह भिन्नकालता, नापि भिन्नदेशता, व्यापित्वात् सर्वदेशेष्ववस्थितेः ; अतो नित्यविभुत्वाद् भवेदन्वयः शब्दानामिति । तत्र सर्वशब्देषु तन्नित्यविभुत्वं तुल्यमिति कृत्वा प्रतिनियतेन शब्देन प्रतिनियताभिधानं न प्राप्रोति । किं तर्हि ? येन केनचिच्छब्देन सर्वस्यैवार्थस्याभिधानं स्यात्, तेनार्थेन सह सर्वत्र