________________
१९. प्रमाणान्तरभावपरीक्षा इदानीं प्रभाद्वितयनियमसाधनार्थं सङ्ख्याविप्रतिपत्तिनिराकरणार्थमाह'
ननु शब्दोपमानादिप्रमाणान्तरसम्भवात्।
निर्दिष्टं लक्षणं कस्माद् द्वयोरेव प्रमाणयोः?॥१४८६॥ अनेनाव्यापितां प्रमाणलक्षणस्य दोषम्, 'प्रमाद्वितयनिश्चितम्' इत्यत्र द्वितयावधारणवैफल्यं चाह ॥ १४८६॥ . उच्यत इत्यादिना परिहरति
उच्यते; न द्वयादन्यत् प्रमाणमुपपद्यते। ..
प्रमाणलक्षणायोगाद् योगे चान्तर्गमादिह ॥१४८७॥ अन्तर्गमादिहेति। अस्मिन्नेव प्रमाणद्वये। एतदुक्तं भवति-प्रमाणद्वयादन्यस्य प्रमाणलक्षणमविसंवादित्वं नास्त्येव, सति चात्रैवान्तर्भावात् पृथङ्नोच्यते प्रमाणान्तरमिति ॥१४८७॥
.. तत्र कथमन्येषामप्रामाण्यम्? प्रामाण्ये वा कथमिहांन्तर्भाव:?– इत्येतद् द्वयं प्रतिपादयति । तत्र शाब्दोपमार्थापत्त्यभावयुक्त्यनुपलब्धिसम्भवैतिह्यप्रतिभाख्यानि प्रमाणान्तराणि परैरभ्युपगतानि।
१.शाब्दविचारः १. तत्र शाब्दमधिकृत्याह-- .
शब्दज्ञानात् परोक्षार्थज्ञानं शाब्दं परे जगः। तच्चाकर्तृकतो वाक्याद् यद्वा प्रत्ययितोदितात् ॥१४८८ ॥ इदं च किल नाध्यक्षं परोक्षविषयत्वतः। नानुमानं च घरते तल्लक्षणवियोगतः॥१४८९॥ धर्मी धर्मविशिष्टो हि लिङ्गीत्येतत् सुनिश्चितम्।
न तावदनुमानं च यावत् तद्विषयं न तत्॥१४९०॥ [G.434] तत्र शबरस्वामीशाब्दलक्षणमाह-"शब्दज्ञानादसन्निकृष्टेऽर्थज्ञानं शाब्दम्" (मी० द० शा० भा० १.१.५) इति। शब्दस्वलक्षणग्रहणादुत्तरकालं ज्ञानं तच्छब्दादागतमिति कृत्वा शाब्दप्रमाणम्। तच्च द्विविधम्-अपौरुषेयशब्दजनितम्, प्रत्ययितपुरुषवाक्यजं च । एतच्च प्रत्यक्षाद् भिन्नम्। परोक्षविषयत्वात् नाप्यनुमानम्; त्रैरूप्याभावात् । तथा हि-साध्यधर्मविशिष्टो धर्मी अनुमेय इष्यते, न केवलः, नापि धर्ममात्रम् । यावच्च तद्धर्मित्वेन धर्मिविषयं लिङ्गं नावधार्यते, न तावदनुमानस्य प्रवृत्तिः सम्भवति। यावत् पक्षधर्मत्वावधारणा न भवति, न तावदनुमानमिति यावत्॥ १४८८-१४९० ॥ ।
सैव पक्षधर्मत्वावधारणा किं न भवति? इत्याह१. विप्रतिकरणार्थल-गा० ।
२. शब्दप्रमाणादि०-मा०, गा० ३. अत्र- पा०, गा०। ४. तथा-पा०. गा०।
५. प्रत्ययिनोदितात्-गा० । ६. भवेद०-पा०, गा०/