SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ___ अनुमानपरीक्षा ३६९ अविद्धकर्णस्तत्त्वटीकायामाह- "ननु वा प्रमाणेन किमिति परः प्रतिपाद्यते, उभयसिद्धं हि प्रतिपादकं भवतीति? तदेतदयुक्तम्; यस्माद् वचनात्मकमनुमानम्, न च वक्तुः प्रमाणम्, अथ च वक्ता तेन परं प्रतिपादयति, परप्रतिपादनार्थत्वात् प्रयासस्य, नावश्यमुभयसिद्धेन प्रयोजनम्" ( ) इति। तदाशङ्कते अनुमान प्रमाणं चेद् वक्तुर्न' वचनात्मकम्।' प्रकाशयति तेनायं यथा तद्वदिदं भवेत्॥१४८४॥ [G.433] अयमिति वक्ता। तेनेति वचनात्मकेन ॥ १४८४ ॥ अज्ञातेत्यादिना दूषणमाह अज्ञातार्थाप्रकाशत्वादप्रमाणं तदिष्यते।। नासक्तासूचकत्वेन तावकीनं तथा ननु॥१४८५॥ न हि वचनस्य वक्त्रपेक्षया संसूचनादप्रामाण्यमिष्टम्, किं तर्हि ? अज्ञातार्थाप्रकाशनात्। सक्तसूचकत्वमस्यास्त्येव, त्वदीयं त्वनुमानं न सक्तसंसूचकम्-इत्यसमानमेतत्; अन्यथा ह्यभयसिद्धमेव भवेत्। तस्मान्यायादंनपेतं प्रमाणं सर्वेषां युक्तं प्रत्यक्षवदिति न्याय्यम् ।। १४८५॥ इत्यनुमानपरीक्षा॥ १. चक्रुर्न-पा०. गा०।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy