________________
३६८
तत्त्वसंग्रहे नत्वप्रसङ्गादतिप्रसङ्गो न भवति; तयो सक्तसंसूचकत्वाभावात् । अत एव दर्शनमूलयोः संविदः सकाशादस्या विशेषः । तथा हि-दर्शनज्ञानेन साक्षाद् धूमादेर्लिङ्गस्य प्रतीतिः, न तु श्रोत्रज्ञानेन। तेन हि शब्द एव साक्षाद् गृह्यते, न च शब्दो धूमवद्बाह्यस्यार्थस्य लिङ्गम् ; विवक्षाप्रतिबद्धस्य बाह्येन सम्बन्धासिद्धेः। केवलं तस्य धूमादेर्लिङ्गस्य संसूचकत्वेन सङ्केतवशात् तथाध्यवसायिविकल्पोत्पत्तेर्बाह्यार्थापेक्षया परार्थमिति वर्ण्यते। विवक्षायां तु गम्यायां श्रोत्रपेक्षया स्वार्थमेव भवति। तथा हि-तत्कार्यत्वाद् धूमवद्विवक्षायां गमक' इष्यते, न वाचकत्वेन, ततो ज्ञानाप्रतीतेः। विफला व्याहृतिरिति । "नानुमानं प्रमाणम्" इत्येषा। तथा हि न कश्चित् प्रतिपाद्यस्तद्वचनाद् विवक्षां प्रतिपद्यते। अनेन स्ववचनविरोधमाह। एतच्च पूर्वं वर्णितमेव ॥ १४७८-१४८०॥
पुरन्दरस्त्वाह- "लोकप्रसिद्धमनुमानं चार्वा कैरपीष्यत एव, यत्तु कैश्चिल्लौकिकं मार्गमतिक्रम्यानुमानमुच्यते तन्निषिध्यते" इति? एतदाशङ्कय दूषयत्राह- ...
लौकिकं लिङ्गमिष्टं 'चेत्तत्त्वत: परिकल्पितम्।.. ननु . लोकोऽपि कार्यादेर्हेत्वादीनवगच्छति॥१४८१॥ तत्त्वतस्तु तदेवोक्तं न्यायवादिभिरप्यलम्।
तल्लौकिकाभ्यनुज्ञाते किं त्यक्तं भवति त्वयां॥१४८२॥ [G.432] तत्त्वते इति । हेत्वादीनवगच्छतीति सम्बन्धः । कायादिरित्यादिशब्दात् स्वभावग्रहणम् । एवं हेत्वादीन्' इत्यत्रापि स्वभावग्रहणमेव । बहुवचनं तु व्यक्तिभेदात् । यत एवं लिङ्गात् तादात्म्यतदुत्पत्तिप्रतिबद्धाल्लोकार्थं प्रतिपद्यते, तदेवोक्तं लिङ्गमस्माभिः; तदभ्यनुज्ञाने किं त्यक्तं स्याद्, यस्यानुमानत्वनिषेधो भवेत्!॥ १४८१-१४८२ ॥
__ अथापि स्यात्-नैवास्माकं किञ्चिदनुमानमिष्टम्; किन्तु परेण तत् प्रमाणमिष्टम्, तदभ्युपगमान्मम विफला व्याहर्तिन भवतीति? अत्रांह
अप्रमाणेन चैतेनं पर: किं प्रतिपद्यते ! कुतश्चायं निश्चयो जात:-परेण तत् प्रमाणमभ्युपगतमिति? नहि पराभ्युपगमः प्रत्यक्षः, न चान्यत् तव प्रमाणमस्ति, येन निश्चयः स्यात् ! भवतु नाम निश्चयः, तथाऽपि तेनाप्रमाणेन पराभ्युपगतेन किमिति परः प्रतिपद्यते, न वै व्यसनमेतत्।
अथापि स्यात्- यथा रिपुहस्तादाच्छिद्य खङ्गं तेनैव स एव रिपुर्निपात्यते; एवं परेण यत् प्रमाणत्वेनाभ्युपगतम्, तदेव गृहीत्वा परो निराक्रियते? इत्याशङ्कयाह
अप्रमाणकृतश्चासौ प्रत्ययः कीदृशो भवेत्॥१४८३॥ एतदुक्तं भवति-यदि मोहात् परेणाप्रमाणमेव प्रमाणमिति कृत्वा संगृहीतम्, कथं तेनाप्रमाणेन परस्य सम्यग्ज्ञानोत्पादनं शक्यते कर्तुम्; सम्यग्ज्ञानफलत्वात् प्रमाणस्य । न हि मोहात् खड् इति कृत्वा गृहीतेन येन केनचिच्छेदकेन परश्छेत्तुं शक्यत इति न समानो दृष्टान्तः ॥ १४८३॥ १. शब्द इत्यर्थ।
२-२. ०न्न त्वन्यत्- जै० पुस्तके पाठान्तरम् न त्वन्य- पा०, गा० । ३. स्वयम्- पा०, गा०। ४-४. ननु लोकोऽपीति-पा०, गा०। ५-५. यदेव लिङ्गं-पा०, गा०।