________________
अनुमानपरीक्षा
३६७
तद्विदाम् । तथा हि-विवेचयन्त्येव वाष्पादिभ्यो धूमादीनभ्यस्ततत्स्वलक्षणाः । ततः प्रविवेच्य ' प्रवृत्ताश्चैते प्राप्नुवन्त्येव वह्निम् । तस्माद्यतः सुविवेचितं लिङ्गं न व्यभिचरति, तेनावस्थादिभेदभिन्नानां सिद्धिर्न दुर्लभा । नापि सुविवेचिताल्लिङ्गात् परिनिश्चयोऽर्थोऽन्यथा शक्यते कर्तुम् । न हि धूमात् सुपरिनिश्चितादनुमितस्य वह्नेरन्यथाभावः शक्यते कर्तुम्; एकस्य विरुद्धस्वभावद्वयायोगात् । यच्चोक्तम्- "न देवदतो भारोद्वहनसमर्थ: " (तत्त्व० १४५९) इत्यादि, यच्च 'अभ्रपटलं वह्निना दह्यते" (तत्त्व० १४५९) इति, तल्लिङ्गमेव न भवति; त्रैरूप्याभावात् । न ह्यदर्शनमात्रेरविवक्षाद्धेतोर्व्यावृत्तिः शक्यते कर्तुम्, यदाह
T
"न चादर्शनमात्रेण विपक्षाद्व्यतिरेकिता" (प्र० वा० ३.१२) इति । किं तर्हि ? तादात्म्यतदुत्पत्तिसम्बन्धनियमादविनाभावनियमः । यदाह"कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो ऽदर्शनान्न न दर्शनात् ॥ "
(प्र० वा० ३.३० ) इति ।
44
न चात्र तादात्म्यतदुत्पत्तिसम्बन्धोऽस्ति ॥। १४७४-१४७६ ॥ स्यादेतत्, सुपरिनिश्चितं लिङ्गं न व्यभिचरतीत्येतदेव कुतः, न ह्यत्र युक्तिरस्ति ?
इत्याह
--
न हि स्वभावः कार्यं वा स्वभावात् कारणादृते ।
भेदानिमित्तताप्राप्तेस्ते विनाऽस्ति न चानुमा ॥ १४७७ ॥
द्विविधमेव हि लिङ्गं यदुत स्वभाव:, कार्यमिति । अनुपलब्धेस्तु स्वभावेऽन्तर्भावः । [G.431] न च स्वभावकारणाख्येन लिङ्गिना विना तयोर्लिङ्गयोः सम्भवोऽस्ति, येन व्यभिचारः स्यात् । कस्मान्न. सम्भवः ? इत्याह- भेदानिमित्तताप्राप्तेः। भेदश्चानिमित्तता च तयोः प्राप्तिः । स्वभावहेतोर्भेदोऽस्वभावता प्राप्नोति, कार्यहेतोरनिमित्तत्वं निर्हेतुकत्वं प्राप्नोति, न च स्वभावकार्यव्यतिरेकेणान्यल्लिङ्गमिष्टम्, अन्यत्राप्रतिबन्धादविनाभावायोगात् । ते विनेति । स्वभावकार्ये । द्विवचनान्तमेतत् ॥ १४७७ ॥
यदुक्तंम् "परार्थमनुमानं तु न' मानम् " ( तत्त्व० १४६२ ) इति, तत्राह - त्रिरूपलिङ्गवचसः सक्तसंसूचकत्वतः ।
यत् परार्थानुमानत्वमुक्तं तच्छ्रोत्रपेक्षया ॥ १४७८ ॥ गौणं साङ्केतिकं चैवमनुमानत्वमाश्रितम् । सक्तसंसूचकत्वेन तेन नातिप्रसज्यते ॥ १४७९॥ चानुमानं प्रमाणं चेद् विफला व्याहृतिस्तव ।
न कश्चिदपि वादो हि विवक्षां प्रतिपद्यते ॥ १४८० ॥ वचनस्य यत् परार्थानुमानत्वमुक्तं तच्छ्रोत्रपेक्षया, तेन वक्त्रपेक्षाभावी दोषो न भवति । श्रोत्रपेक्षयाऽपि त्रिरूपलिङ्गसूचनादुपचारेणानुमानकारणत्वात् समयाद्वाऽनुमानत्वमुक्तम्; सक्तसंसूचक एवानुमासंज्ञानिवेशात् । तेनेन्द्रियस्याविनाभावित्वसम्बन्धज्ञानस्य च परार्थानुमा
१-१. अविवेच्य पा०, अथ विवेच्य गा० ।
२. पा० गा० पु० र्नास्ति ।