________________
३६६
तत्त्वसंग्रहे
वाचा, तथाप्यसंवादित्वं त्वशक्यापह्वत्वादिष्टमेव, तदिच्छता सामर्थ्यात् प्रामाण्यमपि तेन वस्तुस्थित्याऽभ्युपगन्तव्यमिति वस्तुबलप्रकृत्या विरुद्धे उद्भाव्यते, न पराभ्युपगमनानुरोधेन। अथ वा-विरुद्धहेतुसंसूचनाद्विरुद्धः। तत्र विरुद्धो हेतुः-यदविसंवादि तत् प्रमाणं यथा प्रत्यक्षम्, संवादि च त्रिरूपलिङ्गजन्यं ज्ञानमिति स्वभावहेतुः । न चासिद्धौ 'नि:स्वभावत्वनिर्हेतुत्वप्रसङ्गात्, प्रत्यक्षाप्रामाण्यप्रसङ्गानानैकान्तिक: । असाध्यतेति। नात्र साध्यमस्तीत्यसाध्यः, तद्भावोऽसाध्यता। साध्यविकलतेति यावत्। द्वितीयइति। न च त्रैरूप्य इत्यादौ। हेत्वसिद्धतेत। अननुमाने क्वचिदप्यभावात्। एतेनैवेत। त्रिरूपलिङ्गस्य' इत्यादिना न्यायेन ॥ १४६८-१४७० ।। "अनुमानविरोधस्य" (तत्त्व० १४५८) इत्यादौ परिहारमाह
यत्तादात्म्यतदुत्पत्त्या सम्बन्धं परिनिश्चितम्।
तदेव साधनं प्राहुः सिद्धये न्यायवादिनः ॥१४७१॥ ईदृश इति। तादात्म्यतदुत्पत्तिप्रतिबद्धे। आत्महेतुभ्यामिति। स्वभावेन कारणेन च विना यथाक्रमं तल्लिङ्गं न भवति; नि:स्वभावत्वनिर्हेतुत्वप्रसङ्गात् ।। १४७१॥ ...
अनुमानविरोधादिरीदृशेऽस्ति न साधने। ...
नैव तद्ध्यात्महेतुभ्यां विना सम्भवति क्वचित्॥ १४७२॥ यदुक्तम्- "विवक्षितः साध्यधर्मो न धर्मिविशेषणम्" (तत्त्व० प० टी० १४५८) इति, तत्र यदि साध्यधर्मो न धर्मिविशेषणम्, तदा समुदाय एव नास्तीति, ततश्च एतत्समुदायैकदेशत्वात्' इत्यसिद्धो हेतुः स्यात् ॥ १४७२ ॥
परस्परविरुद्धौ च धर्मों नैकत्र वस्तुनि।
युज्येते सम्भवो नातो विरुद्धाव्यभिचारिणः ॥१४७३॥ यच्चोक्तम्- "सर्वत्रानुमाने विशेषविरुद्धानां सम्भवः" (तत्त्व० प० टी० १४५८) इति, तदयुक्तम्; यतः साध्यविपर्ययसाधनाद् विरुद्धः इष्यते, न च विशेषः साधयितुमिष्टः । वस्तुबल-प्रवृत्तानुमाने [G.430] विषये न विरुद्धाव्यभिचारी च सम्भवति; एकस्मिन् धर्मिणि परस्पर-विरुधर्मद्वयप्रसङ्गात् ॥ १४७३ ।। यदुक्तम्- "अवस्थादेशकालानाम्" (तत्त्व० १४५९) इत्यादि, तत्राह
अभ्यस्तलक्षणानां च सम्यग्लिङ्गविनिश्चये। अनुमावृत्तिरन्या तु नानुमेत्यभिधीयते॥१४७४॥ अवस्थादेशकालानां भेदाद् भिन्नासु शक्तिषु। भावानामनुमानेन नातः सिद्धिः सुदुर्लभा॥१४७५॥ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः।
नान्यथा साध्यते साऽन्यैरभियुक्ततरैरपि॥१४७६ ॥. सुपरिनिश्चितं लिङ्गं गमकमिष्यते न सन्दिग्धम्, न हि धूमो वाष्पादिरूपेण सन्दिह्यमानो वह्वेर्निश्चायको भवति। लिङ्गनिश्चय एव कथमिति चेत् ? अभ्यासात्। यथा मणिरूपादिषु १. नि:स्वभावत्वानिल-पा०, गा० ।
२. प्रसङ्गात्रैकाल-पा०, गाल। ३. रीदृश्यास्ति-जै०।
४. अनुमानवृत्तिः -जै।