________________
अनुमानपरीक्षा
३६५
अथ परव्यापारापेक्षया तदुच्यते 'परार्थम्” इति ? तथाऽप्ययुक्तम्; स्वार्थेऽपि [G.428] परार्थत्वप्रसङ्गात्, आपेक्षिकत्वात् परत्वस्य, पारावारवत् ॥१४६३-१४६६ ॥ त्रिरूपलिङ्गेत्यादिना प्रतिविधत्ते
•
. त्रिरूपलिङ्गपूर्वत्वं ननु संवादिलक्षणम् । तल्लक्षणं च मानत्वं तत् किं तस्मान्निषिध्यते ॥ १४६७ ॥ तत्र प्रथमे प्रयोगे 'त्रिरूपलिङ्गपूर्वत्वात्' इत्यस्य हेतोर्विरुद्धतामाह — संवादिलक्षणमिति । संवादित्वमनेन लक्ष्यत इति कृत्वा । यतस्त्रिरूपलिङ्गजं यज्ज्ञानं तत् पारम्पर्येण वस्तुनि प्रतिबद्धम्, अतोऽविसंवादकं प्रत्यक्षवत् । यथाह
" लिङ्गलिङ्गधियोरेवं पारम्पर्येण वस्तुनि ।
प्रतिबन्धात् तदाभासशून्ययोरप्यवञ्चनम् ॥" (प्र० वा० २.८२) इति । तल्लक्षणं चेति अविसंवादलक्षणम् । यथाह - " प्रमाणमविसंवादिज्ञानम्" (प्र० वा० १. ३) इति । न हि प्रत्यक्षेऽपि तत्प्रमाणवादिनाऽन्यत् प्रमाणव्यवस्थानिबन्धनं शक्यमादर्शयितुम्; अन्यत्राविसंवादात् । स च त्रिरूपलिङ्गजन्येऽप्यस्तीति किमिति तस्मात्त्रिरूपलिङ्गपूर्वत्वादविसंवादित्वहेतोः प्रामाण्यं निषिध्यते ! एतेन साध्यसाधनयोरर्थतो विरोध उक्तः । तथा हि-यत्र त्रिरूपलिङ्गपूर्वत्वं तत्राविसंवादित्वम्, यत्राविसंवादित्वं तत्र प्रामाण्यम्, प्रामाण्याप्रामाण्ययोश्च परस्परपरिहारस्थितलक्षणो विरोध इति सामर्थ्याद् विरुद्धो हेतुर्निर्दिष्टः ॥ १४६७ ॥ मिथ्याज्ञानं समानं च पूर्वपक्षव्यपेक्षया ।
इष्टघातकृतार्जन्यं ज्ञानमुक्तं न वस्तुतः ॥ १४६८ ॥ वस्तुस्थित्या हि तज्ज्ञानमविसंवादि निश्चितम् । वादीष्टविपरीतस्य प्रमाणमत एव तत् ॥ १४६९॥
मिथ्याज्ञानमित्यादिना दृष्टान्तस्य साध्यविकलतामाह । यतो वादीष्टविपरीतसाधनात् तदपि प्रमाणमेव; अन्यथा हि साध्यन्तरमपेक्ष्य सर्वदैव सर्वस्य यद्यप्रामाण्यं व्यवस्थाप्येत, प्रत्यक्षेऽपि प्रसङ्गः स्यात्। पूर्वपक्षापेक्षया तु तन्मिथ्याज्ञानमुक्तम्, न वस्तुस्थित्या । पूर्वस्य= प्रथमवादिनः पक्षः पूर्वपक्षः, तस्य व्यपेक्षेति विग्रहः । यो ह्यनाधेयातिशयैकपरार्थत्वं चक्षुरादीनामिच्छति तदभिप्रायापेक्षया मिथ्याज्ञानमुच्यते; अनित्यानेकविज्ञानादिहेतुत्वेन [G.429] चक्षुरादीनां सिद्धत्वात् ॥ १-४६८-१४६९ ।।
अतो विरुद्धता हेतोर्दृष्टान्ते चाप्यसाध्यता । एतेनैव प्रकारेण द्वितीये हेत्वसिद्धता ॥ १४७० ॥
विरुद्धतेति । त्रिरूपलिङ्गपूर्वत्वस्याप्रमाणे क्वचिदप्यभावात् । प्रमाणे तु तत्रैवेष्टविधातकृताज्जन्ये ज्ञाने भावात् । ननु च लोकायतं प्रति विरुद्धसाधने कर्त्तव्ये दृष्टान्तो न सिद्ध एव, न हीष्टविघातकृज्जन्यं ज्ञानं प्रमाणमिच्छति परः, न चान्यतरासिद्धो दृष्टान्तो भवति य एव तूभयनिश्चितवाची स एव साधनदूषणमिति न्याय उच्यते ? यद्यपि परेणात्र प्रामाण्यं नेष्टं .
१. परार्थ- पा०, गा० । ३. ० पदार्थत्वं- गा० ।
२. ० कृता जन्यं - पा०, गा० ।
४. न्यायात्- गा० ।