________________
३६४
तत्त्वसंग्रहे अवस्थादेशकालभेदेन पदार्थानां शक्तयो भिन्नाः। अतो न शक्यतेऽनुमानात् तद्भावनिश्चयः कर्तुम्, न ह्येवं शक्यतेऽनुमानात् प्रत्येतुम्-देवदत्तो भारोद्वहनसमर्थो न भवति; देवदत्तत्वाद्, बालावस्थदेवदत्तवदिति। अत्र ह्यवस्थाभेदेन शक्तिभेदसम्भवाद् व्यभिचारः। तथा देशभेदेनामलकीखजूरादीनां रसवीर्यविपाकभेदो दृश्यते, तत्र नैवं शक्यते कर्तुम्सर्वाऽऽमलकी कषायफला, अनुदूयमानामलकीवदिति। तथा कालभेदेन कूपोदकादीनां शीतोष्मादिभेदः सम्भवति, तत्र सर्वा आपः शीता इति [G.427] न शक्यते निश्चयः कर्तुम्। इत्येवमादि। अवस्थादेशकालानमिति 'भेदात्' इत्येतदपेक्ष्य षष्ठी। 'भावानाम्' इति प्रसिद्ध्यपेक्षा । तथा तृणादिषु निश्चितदहनसामर्थ्यस्याग्नेरभ्रपटले तत्सामर्थ्य प्रतिहन्यते, न च तत्रैवमनुमातुं शक्यते-अभ्रपटलमग्निना दह्यते; पार्थिवत्वात्, तृणादिवदिति। तथाऽन्येनान्यथा प्रतिपादितोऽर्थः पुनरभियुक्ततरेणान्येनान्यथा प्रतिपाद्यत इत्यनिष्टा ॥१४५९-१४६१ ॥ अन्यः पुनराह
परार्थमनुमानं तु न मानं वक्त्रपेक्षया।
अनुवादान्न तेनासौ स्वयमर्थः प्रपद्यते ॥१४६२॥ परार्थमनुमानं वक्त्रपेक्षयाऽनुवादत्वान्न प्रमाणम्। श्रोत्रपेक्षया तु. स्वार्थमेव, को हि विशेषः श्रोत्रद्वारेण तमर्थं प्रतिपद्यते, दर्शनद्वारेण चेति। यथा दर्शनेन्द्रियस्य व्यापारे सति परार्थव्यपदेशो न भवति, एवं श्रोत्रेन्द्रियव्यापारेऽपि मा भूदिति ॥ १४६२ ।।
श्रोतृव्यपेक्षयाऽप्येतत् स्वार्थमेवोपपद्यते। श्रोत्रदर्शनमलायाः को विशेषो हि संविदः ॥१४६३॥ न परार्थानुमानत्वं वचसः श्रोत्रपेक्षया।
श्रोतृसन्तानविज्ञानहेतुत्वज्ञापकत्वतः ॥१४६४॥ दर्शनम् चक्षुरिन्द्रियम्, दृश्यतेऽनेनेति कृत्वा । संविद इति ज्ञानस्य।
तथा न श्रोत्रपेक्षया वचनस्य परार्थानुमानत्वम्, श्रोतृसन्तानवर्त्तिज्ञानहेतुत्वात्, ज्ञापकत्वाद्वा, इन्द्रियवदिति। श्रोतृसन्तानविज्ञानहेतुत्वं च ज्ञापकत्वं चेति द्वन्द्वेन हेतुद्वयनिर्देशः ।
यथेन्द्रियस्य साक्षाच्च नानुमेयप्रकाशनम्।
तस्मादस्याविनाभावसम्बन्धज्ञानवन तत् ॥१४६५॥ यथेन्द्रियस्येति दृष्टान्तनिर्देशः । अयमपरः प्रयोगः-न परार्थानुमानत्वं वचनस्य श्रोत्रपेक्षया, साक्षादनुमेयाऽप्रकाशकत्वात्, अविनाभावसम्बन्धज्ञानवत्। तस्मादिति साक्षादनुमेयाप्रकाशकत्वात्। यस्मात् साक्षादनुमेयाप्रकाशकत्वम्, तस्मान्न श्रोत्रपेक्षया वचसः प्रामाण्यमविनाभावसम्बन्धज्ञानवदिति वाक्यार्थः । अविनाभावः साध्येन, स एव सम्बन्धः, अविनाभावो वा सम्बन्ध: साध्येन यस्य लिङ्गस्य तस्य ज्ञानमिति विग्रहः ॥ १४६५॥ .
___ अथोच्यते परार्थत्वं रेपरव्यापृत्यपेक्षया।
तदप्ययुक्तं स्वार्थेऽपि परार्थत्वप्रसङ्गतः ॥१४६६॥ १. ० पेक्षया-पा०, गा०। २-२. पा०, गा० पुस्तकयो स्ति।
३.परव्यावृत्तय०-पा०, गा०।