________________
अनुमानपरीक्षा
३६३ विवक्षामर्थयन्तोऽपि वाग्भिराभिः कुदृष्टयः ॥१४५५॥ केचनेति । बार्हस्पत्यादयः । आभिरिति । नानुमानं प्रमाणम्' इत्येवंरूपाभिः । अनेन स्ववचनविरोधमाह । तथा हि 'वचनाल्लिङ्गाद्विवक्षा प्रतीयते' इति मन्यमानेन परस्मै स्वाभिप्रायनिवेदनाय व्याहरता दर्शितमनुमानस्य प्रामाण्यम्, न च तत् प्रमाणमिति ब्रुवता तदेव प्रतिषिद्धम्-इतीतरेतरव्याघातः । एतच्च दूषणं पश्चाद्व्यक्तीकरिष्यते ॥ १४५५ ॥
त्रिरूपलिङ्गपूर्वत्वात् स्वार्थ मानं न युज्यते। इष्टघातकृताजन्यं मिथ्याज्ञानं यथा किल ॥१४५६ ॥ भावादननुमानेऽपि न चानुमितिकारणम्। द्वैरूप्यमिव लिङ्गस्य त्रैरूप्यं नास्त्यतोऽनुमा ॥१४५७॥ अनुमानविरोधस्य विरुद्धानां च साधने।
सर्वत्र सम्भवात् किञ्च विरुद्धाव्यभिचारिणः ॥१४५८॥ [G.426] तत्र तावच्चार्वाकाः प्रमाणयन्ति-स्वार्थानुमानं प्रमाणं न भवति; त्रिरूपलिङ्गपूर्वत्वान्मिथ्याज्ञानवत्। परार्थाश्चक्षुरादयः सङ्घातत्वाच्छयनासनाद्यङ्गवत्-इत्येतस्येष्टविघातकृतः किल त्रिरूपत्वान्मिथ्याज्ञानमेतजन्यं त्रिरूपलिङ्गजमिति। न च त्रैरूप्यमनुमितिकारणम्; अनुमानेऽपि भावाद्, रूप्यवत्।
" अपि च-सर्वत्र साधनेऽनुमानविरोधः सम्भवति। तद्यथा-विवक्षितसाध्यधर्मो धर्मिविशेषणं न भवति; एतत्समुदायैकदेशत्वाद्धर्मिस्वरूपवत्। अनेन हि सर्वमनुमानं निरनुमानीकृतम्।
- सर्वत्र चानुमाने कृते विशेषविरुद्धानां सम्भवः, तद्यथा-अनित्यः शब्दः, कृतकत्वाद्, घटवदिति कृले कश्चिद् विशेषविरुद्धमुद्भावयेत्-यथाऽयं हेतुरनित्यत्वं साधयति, तथाऽऽकाशगुणत्वाभावमपीत्येवमादि।
सर्वत्र च विरुद्धाव्यभिचारी सम्भवति। तद्यथा-अनित्य शब्दः, कृतकत्वाद्, घटवदिति कृते कश्चिविरूद्धाव्यभिचारिणमाह-नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति। एवमादिस्तत्त्वटीकायाम् उदाहरणप्रपञ्चो द्रष्टव्यः ॥१४५६-१४५८॥ तथा भर्तृहरिराह
अवस्थादेशकालानां भेदाद् भिन्नासु शक्तिषु। भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥१४५९॥ नितिशक्तेरप्यस्य' तां तामर्थक्रियां प्रति। विशिष्टद्रव्यसम्बन्धे सा शक्तिः प्रतिबध्यते ॥१४६०॥ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः। अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥१४६१॥
(वा० प० १.३२-३४) १. ०मर्पयन्त:-पा०, गा०। . २. केचिदिति०-पा०, गा०। ३. १४८०तमकारिकाव्याख्यावसरे इत्यर्थः। ४. अविद्धकर्णकृतायामिति शेषः।
५. विज्ञानशक्ते-जै०; विज्ञातशक्ते०-पा०, गा० ।