________________
३६२
तत्त्वसंग्रहे कल्पितं चेत् तदेकत्वं प्रबन्धैक्यविवक्षया।
न तस्यावस्थितिः काचिद् वस्तुत्वं न च भाविकम् ॥१४४७॥ तदा कल्पितमेकत्वं न पारमार्थिकम्, परमार्थतस्तु न कस्यचिदवस्थितिः । ततश्च तद्देशस्तेन तेनैवेत्येतन्न प्रयुज्यते । नापि कल्पितस्य वस्तुत्वम्, ततश्च सन्दिह्यमानसद्भाववस्तुबोधादित्यसम्बद्धं स्यात् ॥ १४४७ ॥
अथापि स्यात्-कल्पनासमारोपितमेवैक्यमाश्रित्य विशेषतोदृष्टमाख्यातम्, न भाविकम् ? इत्याह
न च निर्विषयं ज्ञानं युष्माभिरनुमन्यते।
विकल्पितार्थतायां च व्यक्तं निर्विषयं भवेत् ॥१४४८।। स्यादेतद्-यद्यपि व्यक्तिर्विनाशिनी, जातिस्त्वनपायिनी बिद्यते, ततश्च भाविकमेकत्वं भविष्यति, न च निर्विषयत्वम् ? इत्याह
व्यक्तिरूपस्य नाशेऽपि तिष्ठत्येवाकृतिस्तयोः। . यदि न क्षणभङ्गाप्तेर्भावे तस्या अपि ध्रुवम् ॥१४४९॥ प्रत्यक्षदृष्टः सम्बन्धो ययोरेव विशेषयोः। इत्ययं नियमश्चोक्तो युष्माभिः केन हेतुना ॥१४५०॥ दृष्ट्वैकदानुमानेन तस्यैव हनुमा पुनः। प्रमाणं नेष्यते कस्मात् को विशेषो हि पूर्वके ॥१४५१॥ विज्ञातार्थाधिगन्तृत्वान्न प्रमाणमिदं . यदि। स्मार्त्तवत् प्राक्तनोऽप्येतत् समान किं न वीक्ष्यते ॥१४५२॥ अन्तरालप्रवृत्तस्य सन्देहस्य' निवर्त्तनात्। आधिक्यं तत्र चेदेतदत्रापि सदृशं न किम् ॥१४५३॥ तस्मात् किमस्ति नास्तीति सन्देहविनिवृत्तिकृत्।
स एवेति निराकांक्षमेतत् सामान्यदर्शनम् ॥१४५४॥ [G.425] आकृति: जातिः। यति अभ्युपगमे। जातिव्यक्त्योः परेणैक्यस्येष्टत्वात् कुतो व्यक्तिविनाशे जातेरवस्थानं सम्भवति! अन्यथा भिन्नयोगक्षेमत्वादेकान्तेन तयोर्भेदोऽभ्युपगन्तव्यः स्यात्। भावइति । अयमभ्युपगमवाद एव । एकदा तावजातिर्विस्तरेण निरस्तैवेति कुतस्तस्याः सत्त्वम्! भावेऽपि सत्त्वेऽपि। तस्या अपि क्षणभङ्गः प्राप्नोति; व्यापिनः क्षणभङ्गस्य प्रसाधनात्। अपि च-यदाऽनुमानपरिच्छिन्नं पुनरति तत एव लिङ्गात् तमेव वह्नि परिच्छिनत्ति, तदाऽपि विशेषतोदृष्टं किं न वर्णितम्, येन प्रत्यक्षतोदृष्ट इति विशेषणमिष्टम्। अधिगतार्थाधिगन्तृत्वादिति चेत् ? न; प्रत्यक्षदृष्टेऽपि तत्तुल्यम्। अन्तरालवर्तिसन्देहनिवर्तनमधिकं प्रत्यक्षदृष्टेऽस्तीति चेत् ? न; अनुमानदृष्टेऽपि समानमाधिक्यम्। तस्मात् सर्वत्रैव सामान्यतोदृष्टमेव क्षणक्षयिषु भावेष्वनुमानम्, न विशेषतोदृष्टं नाम किञ्चिदिति ॥ १४४८-१४५४ ॥
न प्रमाणमिति प्राहुरनुमानं तु केचन। . १. प्रबन्धैक०-०। २. युज्यते-पा०, गा०।
३. पा० गा० पुस्तकयोनास्ति।