________________
अनुमानपरीक्षा
३६१ दृष्टसम्बन्धमनुमानमेवं प्रचक्षत इति सम्बन्धः । यतः पूर्वस्मिन्ननन्तरश्लोके "तस्मादेवं प्रचक्षते" (श्रो० वा०, अनु० १४०) इति प्रकृतम्। योरिति । ययोरेवाग्निधूमविशेषयोर्विषयभूतयोर्गोमयेन्धनविशेषबुद्धिः कृता-उत्पादिता, पुरुषेण-'गोमयेन्धनप्रभवावेतावग्निधूमौ' इति; तथा पर्वतादिदेशविशेषमतिः कृता-'एतत्पर्वतादिदेशविशेषस्थावेतावग्निधूमौ' इति। गोमयमिन्धनं ययोरग्निधूमयोस्तौ गोमयेन्धनौ, स देशो ययोस्तौ तद्देशौ गोमयेन्धनौ च तौ तद्देशौ चेति विग्रहः । तावेव विशेषौ तावादी येषां सर्जसरलसल्लकीवनप्रभृतीनां वयादिविशेषान्तराणां तानि गोमयेन्धनतद्देशविशेषादीनि, तेषु मतिरिति “सप्तमी" (पा० सू०२.१.४०) इति योगविभागात् समासः । सा-एवम्भूता प्रत्यक्षा मतिर्येन प्रमात्रा कृता-उत्पादिता, स तद्देशस्थेन तेनैव धूमादिना लिङ्गेन तमेवाग्निं कालान्तरेण यदा बुध्यते। पुनः पुनरिति सम्बन्धः। तदा तस्य बोधस्य पूर्वबोधात्=प्रत्यक्षात्मकात् प्रमाणता प्रमाणान्तरतेत्यर्थः। अथ वापूर्वबोधात् कारणात्तमेव-वहिँ बुध्यत इति सम्बन्धः । 'किमास्ते वह्निः, आहोस्विन्निवृत्तः'?इत्येवं सन्दिह्यमानः सद्भावो यस्य वस्तुनस्तत्तथा, तच्च तद्वस्तु चेति, तत्तथा, तस्य बोध इति विग्रहः।
एतच्च यथोक्तं प्रत्यक्षदृष्टसम्बन्धमनुमानम्,विशेषतोदृष्टमनुमानम्-इत्येवं विन्ध्य वासिमा गदितम् ॥ १४४२-४४॥ सामान्यतोदृष्टमाह
अग्निधूमान्तरत्वे तु वाच्ये सामान्यतो मितौ। . सामान्यदृष्टमेकान्ताद् गन्तेत्यादित्य उच्यते ॥१४४५॥
• अस्य सम्बन्धः-भाष्यकारेण हि सामान्यतोदृष्टानुमाने देशान्तरप्राप्त्याऽऽदित्यगतिस्मरणमुदाहृतम्, तत्रेदं चोद्यं भवति-ननु चाग्न्यन्तरे धूमान्तरे च सामान्यधर्मसमाश्रयेण यदाऽनुमितिः क्रियते,त्दा सामान्यतोदृष्टमनुमानमग्निधूमयोरस्त्येव, किमिति भाष्यकारेणाग्निधूमौ बुद्धौ विपरिवर्तमानेन प्रत्यासन्नावुत्सृज्यादित्य एव सामान्योदृष्टावुदाहृतः?–इत्येतच्चोद्य- . माशङ्कय कुमारिलो भाष्याकारभिप्रायं वर्णयन्नाह-अग्निधूमान्तरत्व [G.424] इति। सामान्यतोऽनुमितौ-सामान्यतोदृष्टानुमाने उदाहरणत्वेनाग्निधूमान्तरत्वे वाच्ये यद् भाष्यकारेणादित्योदाहरणं कृतम्, तत् सर्वकालमादित्यगतेरप्रत्यक्षत्वादेकान्तेन। अत्र 'आदित्यगतौ सामान्यतोदृष्टमेवानुमानं सम्भवति, न विशेषतोदृष्टम्' इति मन्यमानेनासङ्कीर्णविषयं दर्शयितुमादित्य एवोदाहरणत्वेनोच्यते, न पुनरग्निधूमौ; तयोः सामान्यतोदृष्टानुमानाभावादिति ॥ १४४५॥ तदत्रेत्यादिना दूषणमाह
तदत्र क्षणभङ्गस्य व्यापिनः प्रतिपादनात्।
प्राक्तनस्यैव तेनैव नानुमानस्य सम्भवः ॥१४४६॥ व्यापिन इति। अग्निधूमादिसकलपदार्थव्यापकस्य ॥ १४४६ ॥
सत्यपि क्षणिकत्वे प्रबन्धैकत्वादेकत्वमिति चेद् ? आह१. पा०, गा० पुस्तकयो स्ति। २. जै०, पा० पुस्तकयो स्ति। ३. ०दृष्टस्यैवानुमानस्याभा०-पा०, गा० ।