________________
३६०
अविद्धकर्णस्त्वाह
अत्राह
तत्त्वसंग्रहे
"विप्रकीर्णैश्च वचनैर्नैकार्थः प्रतिपाद्यते ।
तेन सम्बन्धसिद्धर्थं वाच्यं निगमनं पृथक् ।" (
सम्बद्धैरेव
वचनैरेकोऽर्थः प्रतिपाद्यते ।
नातः सम्बन्धसिद्ध्यर्थं वाच्यं निगमनं पृथक् ॥ १४४० ॥
हेतोः साध्येन तादात्म्यतदुत्पत्तिलक्षणे सम्बन्धे प्रतिपादितेऽर्थद्वारेण सम्बद्धैरेव पक्षधर्मान्वयव्यतिरेकवचनैरेकोऽर्थः सामर्थ्याद् यथासमीहितः प्रतिपाद्यत इति यद्यपि विप्रकीर्णानि वचनानि, तथापि सम्बद्धान्येवैकार्थोपसंहारेणेति न तत्सम्बन्धसिद्धये पृथग्निगमनं वाच्यम् ॥१४४०॥
च" इति वर्णयन्ति ॥ १४४१॥
) इति ।
द्वैविध्यमनुमानस्य केचिदेवं प्रचक्षते ।
विशेषदृष्टसामान्यपरिदृष्टत्वभेदतः ॥ १४४१ ॥ :
केचिदिति कुमारिलादयः । ते हि - " द्विविधमनुमानम् - विशेषतोदृष्टम्, सामान्यतोदृष्टं
तत्र विशेषतोदृष्टं कतरत् ? इत्याह-
ययोरेव विशेषयोः ।
प्रत्यक्षदृष्टसम्बन्धं गोमयेन्धनतद्देशविशेषादिमतिः कृता ॥। १४४२ ॥ तद्देशस्थेन तेनैव गत्वा कालान्तरेऽपि तम् । यदाऽग्निं बुध्यते तस्य पूर्वबोधात् पुनः पुनः ॥ १४४३ ॥ सन्दिह्यमानसद्भाववस्तुबोधात् प्रमाणता ।
विशेषदृष्टमेतच्च लिखितं 'विन्ध्यवासिना ॥ १४४४ ॥
अयमर्थः -पूर्वं कश्चित् क्वचिद् प्रदेशविशेषे वह्निधूमविशेषौ प्रत्यक्षेण गृहीत्व कालान्तरेण दूरं गतो वा यदा पुनः पुनस्तमेव धूमविशेषं दृष्ट्वा तमेव च' वह्निं पूर्वं परिगृहीतमनुमिमीते, [G.423] तद्विशेषतोदृष्टमनुमानम्; पूर्वप्रत्यक्षगृहीतविशेषविषयत्वात् । न च गृहीतग्राहित्वादप्रमाणम्; यतः किं वह्निरास्ते परिनिवृत्तो वा - इति सन्देहविनिवृत्तेरधिकाय विद्यमानत्वात् । इति पिण्डार्थः ।
अवयवार्थस्तूच्यते
प्रत्यक्षदृष्टसम्बन्धमिति । कः सम्बन्ध: ? अत्रोच्यते; शबरस्वामिनाऽनुमानलक्षणमुक्तम्- " अनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनादेक देशान्तरेऽसन्निकृष्टे बुद्धिः । तद् द्विविधम्प्रत्यक्षदृष्टसम्बन्धम्, सामान्यतोदृष्टसम्बन्धं च । प्रत्यक्षदृष्टसम्बन्धं यथा - धूमाकृतिदर्शनादग्न्याकृतिविज्ञानम्` । सामान्यतोदृष्टं यथा - देवदत्तस्य गतिपूर्विका देशान्तरप्राप्तिमुपलभ्याssदित्यस्य गतिस्मरणम्" (मी० द० शा० भा० १.१.५ ) इति ।
1
तत्र कुमारिलएतत्प्रत्यक्षतोदृष्टसम्बन्धमनुमानं व्याचिख्यासुराह— प्रत्यक्षेत्यादि । प्रत्यक्षे १. पा. गा० पुस्तकयोर्नास्ति । २. ० सम्बन्धो- पा०, गा० । ३. ० कृतेर्विज्ञानम् पा०, गा० ।