________________
अनुमानपरीक्षा प्रतिज्ञानभिधाने च कारणानभिधानतः। कर्तव्योपनयस्योक्तिर्न सद्भावप्रसिद्धये ॥१४३७॥ प्रागुक्ते भवमात्रे च पश्चाद् व्याप्तेः प्रकाशनात्।
विवक्षितार्थसंसिद्धेविफलं प्रतिबिम्बकम् ॥१४३८॥ [G.421] सद्भावप्रसिद्धयइति । हेतोर्धमिणीति शेषः । अयमत्रार्थ:- प्रतिज्ञाप्रयोगस्य यथोक्तया नीत्या निषिद्धत्वात् तत्समनन्तरभाविकृतकत्वादिकारणाभिधानं नास्त्येव। ततश्च कारणाभिधानपूर्वस्योपनयस्योक्तिर्न कर्त्तव्यैव। अथोपनयस्योक्तिः पक्षधर्मत्वप्रसाधानाय क्रियते? तदा कारणाभिधानस्य फलमन्यद्वक्तव्यम् । तत्रैतत् स्यात्-कारणत्वप्रतिपादनमेव फलमिति? तन्न; तेनैव तावत् प्रतिपादितेन कोऽर्थः, यतोऽन्यथाऽपि साध्यसिद्धिर्भवत्येवेति दर्शितमेव। तस्मात् पक्षधर्मत्वप्रतिपादनं मुक्त्वा नान्यत् फलं शक्यते हेतुवचनस्य वक्तुम् । तदा प्रथमतस्तेनैव हेतुवचनेन पक्षधर्मित्वे प्रतिपादिते तत्प्रतिपादमायोपनयनमुपादीयमानं स्फुटतरमेव पुनरुक्ततां प्रकाशयतीति कुतोऽसिद्धता हेतोः! .
प्रतिबिम्बनमपि व्यर्थमेव; यतस्तस्मिन् पक्षधर्ममात्रे हेतुवचनेन प्रागुक्ते सति साध्यधर्मेण च तस्य व्याप्तौ कथितायां विवक्षितांर्थसंसिद्धेरुच्यमानं स्फुटतरमेव पुरुक्ततामावहतीति कुतोऽत्राप्यसिद्धता हेतोः !॥ १४३७-१४३८॥
तत्र "हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्" इति निगमनलक्षणम्। हेत्वपदेशादिति' तस्मादनित्य इत्यादौ तस्मादित्यनेन हेतोः सामर्थ्यमुदाहरणप्रसिद्धमपदिश्य यत् प्रतिज्ञार्थस्य पुनर्वचनं क्रियते तन्निगमनम्। निगम्यन्तेऽनेन प्रतिज्ञाहेतूदाहरणोपनया एकार्थतया समर्थ्यन्ते सम्बध्यन्त इति निगमनम्। तत्र प्रतिज्ञाप्रयोग एव तावन्नास्ति, कुतस्तदनुवादात्मकस्य निगमनस्य-इत्यतो निगमनं न साधनावयवः।
तत्राचार्य दिङ्मागपादैरुक्तम्-"निगमनं पुनरुक्तत्वादेव न साधनम्"( ) इति। अत्रोयोतकरादयः प्राहु:-"न पौनरुक्त्यमत्र, यस्मात् साध्यनिर्देशः प्रतिज्ञा, निगमनं तु सिद्धनिर्देशः । "पुनःशब्दः सादृश्ये, तेन 'प्रतिज्ञासदृशं वचनम्' इत्युक्तं भवति । न च निगमनेन विना सिद्धिरस्ति। तथा हि-तेन विना तदन्यावयवोक्तावपि शङ्का न निवर्त्तते-किमनित्यः शब्द इति, अतस्तदाशङ्कानिवृत्त्यर्थं वाच्यं निगमनं पृथग्" इति।
तदत्राह. त्रिरूपहेतुनिर्देशसामर्थ्यादेव सिद्धितः।
न विपर्ययशङ्कास्ति व्यर्थं निगमनं ततः ॥१४३९॥ [G.422] अनित्यत्वेन प्रदर्शिताविनाभावि कृतकत्वं यदा धर्मिणि निश्चितम्, कुतस्तत्र विपर्ययस्य नित्यत्वस्य शङ्का, न हि ज्वलज्ज्वलनज्वालाकलापपरिगते परिनिश्चितात्मनि भूतले' शैत्याशङ्का कर्तुं युक्ता स्वस्थचेतसः । नापि निगमनाद्वचनमात्रान्नियुक्तिकात्तु सा विनिवर्त्तते ॥१४३९ ।। १. पक्षधर्मत्वे-पा०, गा०। २.पा०, गा० पुस्तकयो स्ति।
३. प्रतिज्ञार्थ-पा०, गा०। ४-४. पा०, गा० पुस्तकयो स्ति। ५.भूतत्त्वे-पा०, गा०।