________________
३५८
तत्त्वसंग्रहे
सपक्षादिव्यवस्था तर्हि कथम् ?
सपक्षादिव्यवस्था चेत् कथं पक्षाप्रयोगतः ।
नातस्त्रैरूप्यमप्यस्ति तदपेक्षानिबन्धनम् ॥ १४३३ ॥
तथा हि- साध्यधर्मसामान्येन समानोऽर्थः सपक्ष इत्युच्यते, तदभावः प्रसाधितश्चासपक्ष इति । असति हि प्रतिज्ञानिर्देशे तदपेक्षानिबन्धनं सपक्षाश्रयनिबन्धनं त्रैरूप्यमपि नास्तीति सर्वमालून विशीर्णं स्यादिति ? ॥ १४३३ ॥
नेत्यादिना प्रतिविधत्ते
न साधनाभिधानेऽस्ति सपक्षादिविकल्पना ।
शास्त्रे तु प्रविभज्यन्ते व्यवहाराय ते तथा ॥ १४३४॥
[G.420] तथा हि—अव्युत्पन्नसपक्षादिव्यवहारो भटादिरपि 'यत्र धूमस्तत्र वह्निर्धूमश्च इत्येतावन्मात्रमुक्तोऽवधारितान्वयव्यतिरेकः सपक्षादिव्यवहारमन्तरेणैव वह्निं प्रतिपद्यत एव तस्मान्न साधनकाले सपक्षादिव्यवस्थाऽस्ति । कुत्र तर्हि सपक्षादिव्यवहारः ? इत्याह - शास्त्र त्विति ॥ १४३४ ॥
यदि वा साधनाभिधानकालेऽपि तद्व्यवस्था क्रियमाणा न विरोधिनीति प्रतिपादयतिप्रकृतार्थी या साऽपि यदि वा न विरुध्यते ।
न वाद्यकाण्ड एवाह परस्यापि हि साधनम् ॥ १४३५ ॥
यद्यपि साधनाभिधानकाले प्रतिज्ञाप्रयोगो, नास्ति, तथापि प्रकृतमर्थं साध्यधर्मिणं समाश्रित्य सा व्यवस्था क्रियमाणा न विरुध्यत एव । न चैतद्वक्तव्यम् - साधनकाले प्रकृत एवार्थो नास्तीति; यतो न, अकाण्ड एव = अप्रस्ताव एव परस्यापि = प्रतिज्ञाप्रयोगवादिनः, वादी साधनमाह ॥ १४३५ ॥
भवतु नाम जिज्ञासितविशेषो धर्मी प्रकृत; तथापि सा क्रियमाणा व्यवस्था प्रकृतं धर्मिणमाश्रित्य कथं कर्त्तव्या ? इत्याह-.
जिज्ञासितविशेषे हि वर्त्तनात् पक्षधर्मता ।
सपक्षस्तत्समानत्वाद् विपक्षस्तदभावतः ॥ १४३६॥
सुबोधम् ॥ १४३६॥
“उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः" इत्युपनयलक्षणम्। तत्र “उपनयवचनं न साधनम्; उक्तहेत्वर्थप्रकाशकत्वात्, द्वितीयहेतुवचनवत्" ( ) इत्या चार्यदिङ्नागपादैः प्रमाणिते, भाविविक्तादयो हेत्वसिद्ध्यर्थमाहुः - "न खलु पक्षधर्मत्वं प्रतिज्ञानन्तरभाविना हेतुवचनेन प्रकाश्यते, कारणमात्राभिधानात् । अनित्यः शब्दो भवति कृतकत्वात्, तत् पुनः कृतकत्वं किं शब्देऽस्ति नास्तीति चेति तस्यास्तित्वमुपनयात् प्रतीयते । अथ वा-प्रतिबिम्बनार्थमुपनयनम्, पूर्वं हि हेतुवचनेन निर्विशेषं कृतकत्वं शब्दे निर्दिष्टम्, तेन दृष्टान्ते प्रदर्शितसाध्याविनाभावित्वस्य कृतकत्वस्योपनयेन प्रतिबिम्बनमुपनयाद् दर्श्यते- - तथा च कृतकः शब्द इति । तस्माद् विशेषद्योतनान्न पुनरुक्तता" ( ) इति । अत्राह९. विस्तीर्ण- पा. विकीर्ण गाए । २. ०नं चुषनमाद० - जै० । ० नमुषनसाद० - पा० ।