________________
अनुमानपरीक्षा
३५७ ज्ञानमेवात्र तथाभूतं कार्यं लिङ्गमभिप्रेतम्, न तु बाह्यं प्रतिबिम्बाख्यं वस्तु ॥१४२७१४२८॥
___ कथमुक्तम्-"त्रिरूपलिङ्गवचनं परार्थं पुनरुच्यते" (तत्त्व० १३६२) इति, यावता पक्षनिगमोपनयवचनमप्यन्यैः परार्थमनुमानं कीर्तितम् ? एतदेव दर्शयन्नाह
प्रतिज्ञादिवचोऽप्यन्यैः परार्थमिति वर्ण्यते। असाधनेत्यादिना प्रतिविधत्ते
___ असाधनाङ्गभूतत्वात् प्रतिज्ञाऽनुपयोगिनी ॥१४२९॥
सिद्धिः साधनम्, प्रमेयाधिगतिरिति यावत्, तस्याङ्गभूतम्=कारणम्, तस्य प्रतिषेधोऽसाधनाङ्गभूतत्वम्। तस्मादसाधनाङ्गभूतत्वादनुपयोगिनी न प्रयोक्तव्येत्यर्थः । अन्यथानुपयोगिनी-अकारणभूतेति व्याख्याने प्रतिज्ञार्थंकदेश: स्यात् ॥१४२९ ॥ [G.419] कथमसाधनाङ्गम्? इत्याह
असम्बन्धान साक्षाद्धि सा युक्तार्थोपपादिका। असक्तसूचनानापि पारम्पर्येण युज्यते ॥१४३०॥ साध्यसाधनधर्मस्य विषयस्योपदर्शनात् । दृष्टान्तपदवत्त्वेषा' साधनाङ्गं . यदीष्यते ॥१४३१॥ अभ्यनुज्ञादिवाक्येन नन्वत्र व्यभिचरिता।
निष्फलं च तदाप्यत्र विषयस्योपदर्शनम् ॥१४३२॥ असक्तसंसूचकत्वं तु साध्यस्यैवाभिधानात्। एतदुक्तं भवति-शब्दानामर्थेन सह सम्बन्धाभावानं तावत् साक्षादुपयुज्यते, नापि हेतुवचनवत् पारम्पर्येण; सक्तासंसूचकत्वादिति। यथोक्तम्
. तत्पक्षवचनं वक्तुरभिप्रायनिवेदने। .. प्रमाणं' संशयोत्पत्तेस्ततः साक्षान्न साधनम्॥ . साध्यस्यैवाभिधानेन पारम्पर्येण नाप्यलम्॥"
(प्र० वा० ४.१६-१७) इति। केचिन्मन्यन्ते-"साध्यसाधनधर्मयोर्विषयोपदर्शनार्थमनवयवभूताऽपि सती दृष्टान्तपदवत् प्रतिज्ञा प्रयोक्तव्येति; 'यतो रूपद्वयं शेषं दृष्टं तेन प्रदर्श्यते' ( ) इति वचनात्, दृष्टान्तपदं पृथगनवयवभूतमपि पक्षधर्मव्यतिरिक्तरूपद्वयप्रदर्शनार्थमेव प्रयुज्यते" इति । तान् प्रत्याह- दृष्टान्तेत्यादि।अभ्यनुज्ञावाक्यम्-एवं कुरु शब्दमनित्यं साधयेति। आदिशब्देनाऽऽज्ञाऽभ्यर्थनावाक्यं गृह्यते। एवम्भूतस्यापि वाक्यस्य प्रयोगनिर्देशार्थं निर्देश: स्यात्, न ह्येभिरपि विनाऽकाण्ड एव साधनस्य प्रवृत्तिः सम्भवतीति। निष्फलमिति । विनापि तेन साध्यप्रतीतेः। तथा हि-यत् कृतकं तत् सर्वमनित्यम्। 'कृतकश्च शब्दः' इत्येतावन्मात्रे प्रोक्ते 'अनित्यः शब्दः' इति प्रतीतिर्भवत्यन्तरेणापि प्रतिज्ञावचनम् ॥ १४३०-१४३२॥ १. अनुपयोगिनी-पा०, गा०। २. त्वेष-पा०, गा० । ४. चक्रु०-पा०, गा०॥
५. प्रापणं-पा०, गा०॥
३. तदा यत्र-पा०, गा०।