________________
३५६
तत्त्वसंग्रहे
इत्येवंविधं कार्यहेतावेवान्तर्भवतीति । अवश्यं चैतद् बोद्धव्यम् - यदि पुनरप्रतिबन्धादेव गमयन्ति तदा यत्किञ्चिद् गमयेयुः; अप्रतिबद्धत्वेनाविशिष्टत्वात् । तस्मादत्रापि प्रतिबन्धो वाच्यः । स च यथोक्तकार्यकारणभावलक्षण एव भवति ॥ १४२१ - १४२२ ॥
रोहिण्यासत्त्या तर्हि कृत्तिकोदयस्य कः प्रतिबन्ध: ? इत्याहकृत्तिकोदयकारणम् ।
प्रभञ्जनविशेषश्च
-
यः स एव हि सन्तत्या रोहिण्यासत्तिकारणम् ॥ १४२३ ॥ हेतुधर्मप्रतीतिश्च तत्प्रतीतिरतो मता ।
तत्प्रतीतिः स्वतन्त्राऽस्ति न तु काचिदिहापरा ॥ १४२४ ॥ प्रभञ्जनः=वायुः । अत्राप्येकसामग्रयधीनत्वाद्धेतुधर्मानुमानादनुमितिः' । यथोक्तम्— "एकसामग्रयधीनस्य रूपादे रसतो गतिः । हेतुधर्मानुमानेन
धूमेन्धनविकारवत् ॥''
(प्र० वा० ३. ९) इति ॥ १४२३ - १४२४ ॥ अथ प्रतिबिम्बाद् बिम्बस्य या गतिस्तस्या न क्वचिदन्तर्भावोऽस्ति; अवस्तुत्वात् प्रतिबिम्बस्य, तस्मादव्यापि लक्षणम् ? इत्याशङ्कयाह
लिङ्गाच्च प्रतिबिम्बाख्यादनुमानं प्रवर्त्तते । यद्विम्बविषयं युक्तं 'तन्नान्यत् कार्यलिङ्गजात् ॥ १४२५ ॥ [G.418] सहैकत्रेत्यादिना चोदकाभिप्रायमाशङ्कते→
सहैकत्र द्वयासत्त्वान्न वस्तुप्रतिबिम्बकम् ।
तत् कथं कार्यता तस्य युक्ता चेत् पारमार्थिकी ? ॥ १४२६॥ अवस्तुत्वे हेतुः - सहैकत्र द्वयासत्त्वादिति । यत्रैव प्रदेशे आदर्शरूपं दृश्यते प्रतिबिम्बकं च तत्रैव । न चैकत्र प्रदेशे रूपद्वयस्यास्ति सहभावः; सप्रतिघत्वात् । अतः सहैकत्र द्वयो रूपयोः सत्त्वं न प्राप्नोति । वस्तुत्वे सति भवति च । तस्माद् भ्रान्तिरियम् ।
अथ वा- सहैकत्र द्वयासत्त्वादिति । कतमस्य द्वयस्य ? आदर्शतलस्य, चन्द्रप्रतिबिम्बस्य च । अन्यत्रैव देशे आदर्शतलं भवति, अन्यत्रैवान्तर्गतं चन्द्रप्रतिबिम्बकं दृश्यते, कूप इवोदकम् । अन्यत्र चोत्पद्यमानं किमित्यन्यत्रोपलभ्यते ! अतो नास्त्येव किञ्चिद् वस्तुभूतं प्रतिबिम्बकं नाम । सामग्र्यास्तु तस्यास्तादृशः प्रभावो यत्' तथा तद्दर्शनम् । अचिन्त्या हि धर्माणां शक्तिप्रभेदा इति ॥ १४२६ ॥ मूर्त्तस्येत्यादिना परिहरति
मूर्त्तस्य प्रतिबिम्बस्य यद्यप्यस्य न वस्तुता । तदाभासं तु विज्ञानं केनावस्तु भविष्यति ॥ १४२७॥ तस्यैव चात्र लिङ्गत्वं कार्यं चेष्टं तदेव हि । बिम्बाधिपत्यादेतद्धि निरालम्बं प्रवर्त्तते ॥ १४२८ ॥
१. ० नुमानमिति पा०, गा० । ४-४. पा०, गा० पुस्तकयोर्नास्ति ।
२-२. ०धीनत्वं स्वरूपादेस्सतो- पा०, गा० । ३. तत्रान्यत्- पा०, गा० । ५. अयं - पा०, गा० ।