________________
अनुमानपरीक्षा
३५५ नायं स्वभावः कार्यं वा दृश्यस्यादृष्टिरेव वा।
न च तद्व्यतिरिक्तस्य भवत्यव्यभिचारिता ॥१४१७॥ शुभादिकर्मविशेषादुष्णशीताद्याहारावस्थाभेदाच्चान्यथाभावो गौरादित्वं सम्भाव्यत इति कुतो विरोधः, 'कारणभेदस्यासिद्धत्वात् ! अपि च तत्पुत्रत्वादिति नायं स्वभावहेतुः, कृतकत्वम्; नहि यथा कृतकत्वस्यान्यत्तत्त्वमस्ति मुक्त्वाऽनित्यत्वम्। नन्वेवं तत्पुत्रत्वस्यान्यः स्वभावो नास्ति; यतः पञ्चोपादानस्कन्धात्मकस्य कञ्चिदपेक्ष्य तत्पुत्रः' इति व्यपदेशः, न तु श्यामत्वस्य। नापि कार्यहेतुः; कार्यकारणभावासिद्धेः । नाप्यनुपलब्धिः; विधिविषयत्वात् । विरोधाभावाच्च न श्यामेतरवर्णाभावसिद्धिः। न चैतद्व्यतिरिक्तं लिङ्गमस्त्यन्यत्र प्रतिबन्धाभावात्। न च प्रतिबन्धमन्तरेण गमकत्वम्; अतिप्रसङ्गात्। तस्मान्नायं हेतुः, नापि त्रिलक्षण इति कुतो व्यभिचार: । दृश्यस्यादृष्टिरुपब्धिलक्षणप्राप्तानुपलब्धिः ॥ १४१६-१४१७॥ ननु चेत्यादिनाऽव्यापितां लक्षणदोषमाह-.
ननु चाव्यभिचारित्वमन्येषामपि दृश्यते। कुमुदानां विकासस्य वृद्धिश्च जलधेर्यथा ॥१४१८॥ लिङ्गं चन्द्रोदयो दृष्ट आतपस्य च भावतः। छायायाः परभागेषु सद्भावः सम्प्रतीयते॥१४१९॥ तमस्युल्मुकदृष्टौ च धूम आरात् प्रतीयते।
कृत्तिकोदयतश्चापि सेहिण्यासत्तिकल्पना?॥१४२०॥ यथा चन्द्रोदयात्- कुमुदविकाससमुद्रवृद्ध्योरनुमानम्। आदिग्रहणात् सूर्योदयात् पद्मविकासस्य । आतपसद्भावात् पर्वतादिषु परभागे च्छायांनुमितिः, एवं दूरात्तमस्युल्मुकमर्द्धदग्धकाष्ठखण्डकं दृष्ट्वा धूमप्रतीतिः, तथा कृत्तिकांनक्षत्रोदयाद्रोहिणीनक्षत्रस्यासन्नत्वं (G.4171 प्रतीयते; यतोऽश्विनीमारभ्य यथापाठं क्रमेणैव नक्षत्राणामुदय इति प्रसिद्धम्। न चास्य सर्वस्य हेतुत्रयान्तर्भावोऽस्तीति तत्किमुच्यते-न तद्व्यतिरिक्तस्य भवत्यव्यभिचारितेति? ॥ १४१८१४२०॥ . . अत्रोत्तरमाह
तदत्र. हेतुधर्मस्य तादृशोऽनुमतिर्यतः । जातास्तदेककालास्ते सर्वे बोधादयोऽपरे ॥१४२१॥ कार्यात् कारणसंसिद्धिरियमेवंविधानतः ।
सम्बन्धानुपपत्तौ च सर्वस्यापि गतिर्भवेत् ॥१४२२॥ 'यस्मात् कारणात्ते बोधादयः=कुमुदविकासादयो जाता:=उत्पन्नाः। किंविशिष्टाः? तदेककाला:-तैश्चन्द्रोदयातपोल्मुकैरेककालाः, तादृशस्य हेतुधर्मस्य हेतुविशेषस्यानुमितैर्मताः ।
एतदुक्तं भवति–यदेव कारणं चन्द्रोदयादीनां कुमुदबोधादिसमानकालोत्पन्नानाम्, तदेव कुमुदबोधादिषु सहकारिकारणतां प्रतिपद्यत इति ते चन्द्रोदयादयस्तथाभृतं स्वकारणमनुमापयन्तोऽर्थान् समानकालभावीन्यपि कुमुदबोधादीन्यनुमापयन्ति, न तु साक्षात्१. ० भेदस्य सिद्धा-पा०, गा० ।
२. ऽव्यभिचार:-गा० । ३. नुमितिर्मता-- पा०, गा०।