________________
३५४
तत्त्वसंग्रहे तस्यां च प्रतिपाद्यायां वैलक्षण्यमतिस्फुटम्। विवक्षासम्मुखीभावे न हि शब्दः प्रयुज्यते ॥१४०९॥ दीपस्तु ज्ञापको नैव नीलादेर्लिङ्गभावतः। ज्ञानोत्पादनयोग्यस्य जननात्तु तथोच्यते ॥१४१०॥ ज्ञापके लिङ्गरूपे च पक्षधर्मादि चिन्त्यते। अन्यथा चक्षुरादीनां कस्मादेतन्न चोद्यते ॥१४११॥ अन्यथानुपपत्त्याऽपि चाक्षुषत्वं न सांधकम्। पक्षधर्मवियोगेन क्लीबास्तेनैकलक्षणाः ॥१४१२॥ एकरूपतयोक्तानां द्वैरूप्यं चोपलक्षितम्।.. द्विरूपत्वेन चोक्तानां त्रैरूप्यं . पक्षधर्मतः ॥१४१३॥ अन्यथाऽनुपपत्त्यैव चाक्षेपादिति चेन्न तत्। ' ' .
शब्दादावन्यथापीष्टे चाक्षुषत्वेन' 'चास्त्यसौ ॥ १-४१४॥ . अन्यथेत्यादि प्रकृतार्थोपसंहारः । यतश्चाक्षुषत्वमनित्यत्वाविनाभाव्यपि शब्दे तदनित्यत्वं न साधयति, यतश्चावश्यं सर्वत्र पक्षधर्मत्वमाश्रयणीयम्; अतः पक्षधर्मत्वाश्रयणादेकरूपतयोक्तानां द्वैरूप्यमावश्यकम्, द्विरूपतया चोक्तानां त्रैरूप्यम्, तत एव पक्षधर्मत इत्येकलक्षणा एव क्लीबा हेतवः । न चैतद्वक्तव्यम्-अन्यथानुपपत्त्यैव पक्षधर्मादय आक्षिप्ताः, अतः पृथक् स्वातन्त्र्येण न तेषां लक्षणत्वमिति; यत: पंक्षधर्मत्वमन्तरेणाप्यन्यथानुपपन्नत्वमस्तीति स्वयमेवोक्तम्
"अन्यथानुपपत्त्यैव 'शब्ददीपादिवस्तुषु ।
__ अपक्षधर्मभावेऽपि दृष्टा शापकतापि च ॥" (तत्त्व० १३७७) इति। चाक्षुषत्वे चानित्यत्वान्यथानुपपन्नोऽसौ पक्षधर्मो नास्तीत्यनेकान्त एव ॥ १४०८१४१४॥
यदुक्तम्-'स श्यामस्तत्पुत्रत्वादित्येष त्रिलक्षणोऽपि न निश्चित्यै प्रवर्त्तते' (तत्त्व० १३६९) इति, अत्राह
तत्पुत्रत्वादिहेतूनां सन्दिग्धव्यतिरेकतः।
न त्रैलक्षण्यसद्भावो विजातीयाविरोधतः ॥१४१५॥ [G.416] तत्पुत्रश्च भविष्यति न च श्याम इति नात्र कश्चिद् विरोध इति सन्दिग्धविपक्षव्यावृत्तिकत्वान्नायं त्रिलक्षण इत्यसिद्धो दृष्टान्तः ॥ १४१५ ॥ ..
स्यादेतत्-असत्येवं विरोधः, कारणाभेदे सति यदि कार्यं भिद्येत निर्हेतुकं स्यात् ? इत्याह
कर्माहारादिहेतूनां सर्वथापि विशेषतः।
सम्भाव्यतेऽन्यथाभावस्तत्पुत्रत्वेऽपि तस्य हि ॥१४१६॥ १-१.०ऽथ ना०-पा०, गा० ।
२.शब्दादिवस्तुषु-पा०, गा० । ३.०नुपपत्रेऽप्यसौ-पा०, गा० ।
४. त्रिलक्षणे०-पा०, गा०।