________________
अनुमानपक्षा
३५३ कथञ्चिदसदात्मत्वसाधने च घटादिषु ।
पूर्ववद्धेतुवैफल्यमप्रसिद्धिश्च दृश्यते ॥१४०२॥ अत्रापि सिद्धसाध्यता; केनचित् घटादीनामसत्त्वस्य सिद्धत्वात्। अथ न [G.414] सिद्धम्, 'अनुपलभ्यमानत्वात्' इत्ययं हेतुरपि न सिध्यतीत्यसिद्धो हेतुरिति पूर्ववद् वाच्यं दूषणं यथा सदात्मसाधने हेतावुक्तम् ॥ १४०२॥ यदुक्तम्-'विपक्षाभावाद् वैधर्म्यदृष्टान्तो नास्ति' इति? अत्राह
अस्ति चात्रापि विस्पष्टं वैधhण निदर्शनम्। तदेव तेषां स्वं रूपं प्रयाति हि विपक्षताम् ॥१४०३॥ कथञ्चन सदात्मत्वसाधनेऽपि निरात्मसु।
इष्टसिद्धिरसिद्धिश्च 'वैधाप्तिस्तथैव च ॥१४०४॥ येन रूपेणोपलभ्यन्ते घटादयस्तेन रूपेण सदात्मत्वं तेषामिष्टमेव यदा, तदा स एव स्वभावस्तेषां वैधर्म्यदृष्टान्तो भवेदेव; तस्मिन् स्वभावेऽनुपलभ्यमानत्वस्य हेतोर्निवृत्तत्वात्। एवं कथञ्चन' इत्यत्रापि प्रयोगे तुल्या इष्टसिद्ध्यादयः ॥ १४०३॥
निरात्मस्विति अभावेषु । वैधाप्तिरिति । वैधर्म्यस्य साध्यनिवृत्तिलक्षणस्य साधनाभावेनाप्तिाप्तिः । तथैवेति । स्वभावस्य वैध→सम्भवेन ॥ १४०४॥ "त्वदीय" (तत्त्व० १३७६) इत्यादावाह-..
पितृशब्दश्रुतेर्याऽपि वेश्मनः प्रतिपाद्यते। पितृसम्बन्धिता तत्र व्यक्तो हेतुस्त्रिलक्षणः ॥१४०५॥ क्वचिद् विप्रतिसम्बद्धः स्वरः प्रागुलक्षितः।
तस्याननुभवे पूर्वं दुर्द्धस हेत्वसिद्धता ॥१४०६॥ तस्येति पितृसम्बद्धस्य। अन्यत्र क्वचित् प्रदेशेऽननुभवे सत्यसिद्धो हेतुः स्यात् ॥१४०५-१४०६॥ यस्मिन्नित्यादिना तदेव त्रैरूप्यमादर्शयति
यस्मिन् प्रागुलब्धश्च नोपलब्धश्च यत्र सः। अन्वयो व्यतिरेको वा विस्पष्टं तत्र दृश्यते ॥१४०७॥
शब्दस्तु ज्ञापयत्यर्थं नैव बाह्यं कथञ्चन। [G.415] शब्दस्य बाह्यार्थापेक्षयाऽन्यथानुपपन्नत्वमसिद्धमिति तं प्रत्यलिङ्गत्वम्; इच्छामात्रावृत्तित्वात्तस्य। अथ 'बुद्धिविपरिवर्तिनमर्थमपेक्ष्य? तदा त्रैलक्षण्यमस्त्येव धूमस्येव; यतो विवक्षाया असम्मुखीभावे शब्दस्याप्रयोगात् तत्कार्यत्वाद् धूमवज्जातवेदसो गमक इष्ट एव, न तु वाचकरूपेण । प्रतीपस्तु लिङ्गद्वारेण धूमवन्न ज्ञापक इष्टः, किं तर्हि ? विज्ञानजननयोग्यघटाधुत्पादनेन ज्ञापको रूढः, न तु लिङ्गत्वेन-इति तस्य लिङ्गभूतस्य पक्षधर्मत्वादिचिन्ता न युक्तैव; अन्यथा चक्षुरादीनामपि पक्षधर्मत्वादि चोदनीयं स्यात् ।
अन्यथासम्भवाभावाद् विवक्षागमकस्त्वसौ ॥१४०८।। १.वैधर्मासि०- गा०। २. बुद्धिपरि०-पा०; गा०। ३.०जातवेदसे-पा०, गा०। ४. तस्या- जै०।