________________
३५२
तत्त्वसंग्रहे अथ कार्यकारणव्यवहारो विस्मृतं प्रति साध्यते, तथा सति त्रिरूपो हेतुः स्यात्; अग्निधूमादेः प्रसिद्धकार्यकारणस्य दृष्टान्तत्वेन विद्यमानत्वात् ।। १३९८ ॥ "चक्षु रूपग्रहे" (तत्त्व० १३७३) इत्यादावाह
चक्षुषो धर्मिरूपस्य सत्ता तावदनिश्चिता।
तस्याश्च साधनं युक्तं नासिद्धयादिप्रसङ्गतः ॥१३९९॥ तस्याश्च साधनं युक्तं नेति छेदः । असिद्ध्यादीत्यादिशब्देन व्यभिचारविरोधयोर्ग्रहणम्। सत्तायां साध्यायां सर्वो 'हेतुस्त्रयीं दोषजाति नातिवर्त्तते । तथा हि-भावे धर्मे हेतावसिद्धता, उभयधर्मेऽनैकान्तिकता, अभावधर्मे विरुद्धता। यथोक्तम्
"नासिद्धर्भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः ॥ .. [G.413] धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम्।" ...
(प्र० वा० ३. १९०, १९१) इति। अथ चक्षुषि धर्मिणि चक्षुर्विज्ञानोत्पादनशक्तिः साध्यते, तदापि शक्तिः, सत्ताइत्यादेः पर्यायत्वात् तत्साधने सत्तासाधनप्रसङ्गः।व्यतिरेकेऽपि तस्या अतीन्द्रियत्वेनासिद्धत्वादाश्रयासिद्धो हेतुः स्यात्। एवं रूपग्रहणात्' इत्ययमप्यपक्षधर्मत्वादसिद्धो द्रष्टव्यः ॥ १३९९ ॥ कथं तर्हि भवतामपि चक्षुरादीन्द्रियसिद्धिः? इत्याह- .
किन्तु रूपादिभावेऽपि चक्षुर्ज्ञानं न जायते।।
कदाचित् तेन तन्मात्रं न हेतुरिति गम्यते ॥१४००॥ कदाचिदिति। निमीलितलोचनावस्थायाम्। न ह्यस्माभिराहत्य चक्षुरादीदन्तया साध्यते, अपि तु ज्ञानं केषुचिद्रूपादिषु सत्स्वन्वयव्यतिरेकावनुभवद् दृश्यते, तस्य कारणान्तरापेक्षिता तन्मात्रासम्भविता च साध्यत इति तदेव ज्ञानं धर्मीति नासिद्ध्यादिदोषः । यत्तत् कारणान्तरं तच्चक्षुरिति व्यवह्रियते। सिद्धान्ताश्रयस्तु भेदव्यवहारः ॥ १४०० ।।
स्यादेतत्-भवतु यथोक्तया नीत्या विज्ञानस्य धर्मित्वम्, तथापि द्विरूप एव हेतुः? इत्याह
स्वहेतुनियतोद्भूतिरंकुरादिश्च विद्यते।
तस्मिन् दृष्टान्त एवं च वैलक्षण्यमतिस्फुटम् ॥१४०१॥ स्वहेतुनियता-स्वहेतुप्रतिबद्धा, उद्भतिर्यस्यासौ स तथोक्तः । एवम्भूताः स्वकारणायत्तजन्मानोऽङ्करादयः कादाचित्का दृष्टान्तत्वेन सम्भवन्तीति यावत्। एवं च प्रयोगः कार्य:यत्सन्निधानेऽपि कादाचित्काः, ते न तन्मात्रासम्भविनः, कारणान्तरसव्यपेक्षकाश्च; तद्यथासत्स्वपि क्षित्यादिषु बीजसन्निधानासन्निधानाभ्यामन्वयव्यतिरेकिणोऽङ्करादयः। सत्स्वपि रूपादिषु कादाचित्कं चक्षुर्ज्ञानं निमीलितानिमीलितावस्थायामिति व्यापकविरुद्धोपलब्धि प्रतिषेधे। विधौ तु स्वभावहेतुः ॥ १४०१ ॥
"कथञ्चित्" (तत्त्व० १३७४) इत्यादावाह१-१. हेतुर्दोषत्रयं-पा०, गा०। २. भावश्च-जै०, पा०, गा०। ३. सत्तातोऽभेदेऽपि शक्तरित्यर्थः। ४. हेतुप्रतिबद्धा-पा०,गा। ५. यत्सनिधाने-पा०,गा। ६. तन्मात्रसम्भविन:-पा०,गा।