________________
३५१
अनुमानपरीक्षा ननु च यदि चन्द्रप्रसाधनाय त्रिरूपो हेतुः सम्भवति, कथं तर्हि योऽचन्द्रत्वं शशिनि प्रतिजानीते, तं प्रति चन्द्रसाधनाय लोकस्य ब्रुवतोऽनुमानाभाव आचार्याणोक्तः “यत्राप्यसाधारणत्वादनुमानाभावे शाब्दे प्रसिद्धेन' विरुद्धनार्थेनापोह्यते, यथा-अचन्द्रः शशी सत्त्वादिति नासौ पक्षः" (. ) इत्येतेन ग्रन्थेन? इत्याशङ्कयाह
चन्द्रत्वसाधने हेतावसाधारणता भवेत्।
प्रसिद्धिव्यतिरेके च वस्तुरूपसमाश्रये॥१३९५॥ __ इति । वस्तुरूपसमाश्रयइति । वस्तुसदसत्तानुरोधिनि साधने । अत्रासाधारणतोक्ता, न तु प्रसिद्धिलक्षणे हेतौ। तस्येच्छानुरोधित्वादस्त्येवान्वयः; यस्मादसौ विप्रतिपन्नः सर्वप्रतीत्यपलापी न शक्तये प्रसिद्धिलक्षणेन चन्द्रत्वं प्रतिपादयितुम्।न चान्यल्लिङ्गमस्ति वस्तुबलप्रवृत्तम्, येन चन्द्रत्वं शशिनि प्रतिपाद्येत; चन्द्रादिव्यपदेशस्येच्छामात्रानुरोधित्वेनावस्तुधर्मत्वादिति तं प्रत्यदृष्टान्तमनुमानमुक्तम्। यथोक्तम्
"चन्द्रतां शशिनोऽनिच्छन् कां प्रतीतिं स वाच्छति। [G.412] इति तं प्रत्यदृष्टान्तं तदसाधारणं मतम्॥"
(प्र० वा० ४.१२०) इति। अचन्द्रसाधन इति क्वचित् पाठः । तत्रैवमिति सम्बन्धः-पूर्वपक्षवादिना य उक्तः 'अचन्द्रः शशी सत्वात्' इति हेतुः, तस्मिनचन्द्रसाधनहेतौ पूर्वपक्षवादिना प्रोक्ते सति चन्द्रत्वसाधनाय तं प्रति प्रवृत्तस्योत्तरपक्षवादिनोऽसाधारणतानुमानाभावे कारणमाचार्येणोदितम् "यत्राप्यसाधारणत्वादनुमानाभावे"( ) इत्यादिना प्रसिद्धिव्यतिरिक्तं वस्तुबलप्रवृत्तं लिङ्गमाश्रित्येति ॥ १३९५॥ . .
तृतीयेऽपि हेतावाह. पतत्कीटकृतत्वस्य न विशेषः समीक्ष्यते।
पतत्कीटकसंस्पर्शप्रतिलब्धोदयस्य च ॥१३९६॥ . न विशेष: समीक्ष्यत इति। हेतुप्रतिज्ञयोः । प्रतिज्ञाथैकदेशो हेतुरिति यावत्। तथा हि-अत्र विशिष्टकीटहेतुत्वं वेदनायाः साध्यत्वेनेष्टम, तदेव च शब्दान्तरेण 'हेतुत्वेनोक्तमिति न विशेषो हेतुप्रतिज्ञयोः ॥ १३९६ ॥
अथ मंतम्-यदा 'पततः' इत्येतद्विशेषणं नोपादीयते, 'प्रतिलब्धोदयत्वात्' इत्येव तु सामान्यं हेतुरुच्यते, तदान प्रतिज्ञार्थंकदेशता? इत्याह
पततोऽस्येति कार्यं हि ध्रुवं हेतोर्विशेषणम्। .
अन्यथा व्यभिचारित्वं दुर्निवारं प्रसज्यते ॥१३९७॥ कीटान्तरकृतया वेदनया व्यभिचारो मा भूदिति विशेषणं कार्यम् ॥ १३९७ ॥
कार्यताव्यवहारस्तु तस्य विस्मरणे सति। . यदि साध्यस्त्रिरूप: स्यात् पूर्वसिद्धनिदर्शनात् ॥ १३९८ ॥ १-१. शाब्दप्रसिद्धन-पा०, गा०। २. हेतुनोक्त०-पा०, गा०।