________________
३५०
तत्त्वसंग्रहे योऽयम् ‘कथञ्चिदुपलम्भतः' इति हेतुरुक्तः, असौ निष्फलः; सन्दिग्धस्य विषयस्याभावात्। सिद्धसाध्यत्वादिति यावत्। न हि सिद्धो विषयो हेतोरिष्यते, किं तर्हि ? सन्दिग्धः । तथा हि-सन्दिग्धे हेतुवचनात् 'व्यस्तवत् सिद्धोऽपि हेतोरनाश्रय एव; सिद्धत्वात् साध्यस्येति ॥ १३८९ ।। अथ स्यात्-सन्दिग्ध एव हेतोरत्रापि विषयोऽस्तीति? अत आह
भावस्य हि तदात्मत्वं सर्वैरेव विनिश्चितम्।
कथञ्चित् तस्य साक्ष्यत्वं किमित्थमभिधीयते॥१३९० ॥ कथञ्चित् सदात्मकत्वं भावस्य सर्वैर्यदा निश्चितमेव, तदा भवता किमित्थमभिधीयतेकथञ्चित् सदात्मको भाव इति! तदात्मत्वमिति सदात्मत्वम्। भावस्येत्युपलक्षणमभावस्यापि। कथञ्चित्-प्रमेयादिरूपेण सदात्मत्वं निश्चितमेवेति व्यर्थो हेतुः ॥ १३९०॥ अथ साङ्ख्यादीनामसिद्धम्, अतः साध्यते? इत्याह
सर्वभावैक्यवादेऽपि विकारात्मादिभेदतः। केनचिद विशदात्मत्वमात्मना सम्प्रकाश्यते॥१३९१॥ सर्वभावगतं येऽपि निःस्वभावत्वमाश्रिताः।
तेऽपि तत्त्वत इत्यादि विशेषणमुपाश्रिताः॥१३९२॥ सर्वभावानामैक्यवादः साङ्ख्यीयो यस्मिन् वादे स्थितः, तैरेव साङ्खयैः केनचिदात्मना स्वभावेन तदात्मत्वं सम्प्रकाशयत एव। कथम्? इत्याह-विकारात्मादिभेदत इति। विकारात्मा विकारस्वभावः । आदिशब्देन प्रकृतिरसङ्कीर्णा सुखदुःखादिस्वभावा, [G.411] पुरुषाश्च परस्परतः प्रकृतेश्च भिन्ना गृह्यन्ते। येऽपति। माध्यमिकाः। येऽपि तत्त्वतइति सविशेषणं सर्वभावानां निस्स्वभावत्वमाश्रिताः, न तु सर्वथा; 'यथादर्शनमुत्पादादीनामभ्युपगमाच्च । तत्त्वत इति न्यायतः । आदिशब्दात् 'परमार्थतः' इत्यादर्ग्रहणम् । अवश्यं चैतदभ्युपगन्तव्यम्-सर्वैरेव भावस्य कथञ्चित् सदात्मत्वं निश्चितमिति ॥ १३९१-१३९२ ॥
कथञ्चिदुपलभ्यत्वमन्यथा न हि सिध्यति।
व्यवहारस्य साध्यत्वे प्रसिद्धं स्यानिदर्शनम्॥१३९३॥ अन्यथैवमनिष्यमाणे 'कथञ्चिदुपलभ्यमानत्वात्' इत्ययं हेतुरपि न सिध्यति। पूर्व सिद्धसाध्यता हेतुदोष उक्तः । इदानीं त्वसिद्धतोक्ता। अथ व्यवहारः साध्यते? तदा यत्र पूर्व व्यवहारः कृतस्तत्प्रसिद्ध निदर्शनं सम्भवतीति त्रिरूप एव स्यात्। अन्यथा निदर्शनाभावे सोऽपि व्यवहारो न सिध्येत् ॥ १३९३ ॥ द्वितीयप्रयोगे दूषणमाह
चन्द्रत्वेनापदिष्टत्वं सपक्षेऽप्यनुवर्तते।
क्वचिन्माणवके यद्वा कर्पूररजतादिके॥१३९४॥ . माणवक इति पूरुषे ॥ १३९४ ॥ १. प्रत्यक्षादिनिराकृतपक्षवदित्यर्थः । २. दर्शनमु०- पा०; दर्शनसमु०-गा० /