________________
अनुमानपरीक्षा
३४९ अति द्वितीयं पक्षमाह
अथेदं लक्षणं हेतोर्धर्मिण्येवावगम्यते। यतः प्रमाणात् तत्सिद्धिः साध्यस्यापि ततो न तु॥१३८५॥ . साध्यस्याप्रतिपत्तौ हि हेतोरपि न निश्चयः। अतो निरर्थको हेतुरन्यतः साध्यसिद्धितः॥१३८६॥ अन्योन्याश्रयदोषश्च हेतोः साध्यस्य निश्चये।
द्वयोरन्यतरासिद्धावन्यस्याप्यनिनिश्चित:२ ॥१३८७॥ अथ साध्यधर्मिण्येव साध्याविनाभावित्वं हेतोर्यत्, तदेव हेतुलक्षणम्। यथाह
"विना साध्याददृष्टस्य दृष्टान्ते हेतुतेष्यते। परैर्मया पुनर्धर्मिण्यसम्भूष्णोर्विनाऽमुना॥ अर्थापत्तेश्च शाबर्या भैक्षवाश्चानुमानतः।
अन्यदेवानुमानं नो नरसिंहवदिष्यते॥" ( ) धर्मिणीति साध्यधर्मिणि । अमुना साध्यधर्मेण विना साध्यधर्मिण्यसम्भवनशीलस्येत्यर्थः । एवं तर्हि यत एव प्रमाणाद्धेतुः साध्याविनाभूतः साध्यधर्मिणि सिद्धः. तत एव साध्यमपि सिद्धमिति व्यर्थो हेतुः। .
____अथ साध्यं न सिद्धम्, तदा हेतुरपि न सिद्ध एव; यस्मात् साध्यधर्मिणि साध्याविनाभाविता हेतुलक्षणम्, तच्चाविनाभांवित्वं साध्यासिद्धौ न सिद्धमित्यसिद्धो हेतुः; उभयसिद्धिनान्तरीयकत्वादविनाभावित्वस्य। अन्यतः प्रमाणात्साध्यसिद्धौ हेतुः सिद्ध इति चेत्? किं तदानीं हेतुना, साध्यस्य सिद्धत्वात्! हेतोः सकाशात् साध्यस्य निश्चये कर्त्तव्येऽन्योन्याश्रयदोषश्च स्यात् । कथम्? इत्याह-द्वयोरित्यादि । हेतुसिद्धिपूर्विका साध्यसिद्धिः तदर्थत्वाद्धेतोः।हेतोश्च साध्याविनाभाविलक्षणस्य साध्यसिद्धिपूर्विका सिद्धिरिति व्यक्तमितरेतराश्रयत्वंम्॥१३८५१३८७॥ . : : [G.410] तृतीयपक्षमाह
निदर्शनेऽपि तत्सिद्धौ न स्याद् धर्मिणि साध्यधीः।
न हि सर्वोपसंहारात् तस्य व्याप्तिर्विनिश्चिता॥१३८८॥ निदर्शने-साध्यधर्मिव्यतिरिक्ते दृष्टान्तधर्मिणीत्यर्थः । तत्सिद्धविति हेतुसिद्धौ। एतदुक्तं भवति-यदि साध्यधर्मिव्यतिरेकेणान्यत्रैव दृष्टान्तधर्मिणि हेतोरविनाभावित्वमिष्यते, न तु सर्वोपसंहारेण सह साध्यधर्मिणा, तत् कथं साध्यधर्मिणि हेतोः सकाशात् साध्यप्रतिपत्तिः स्यात् ! कथं च न स्यात् ? इत्याह-न हीत्यादि॥ १३८८ ॥ योऽपीत्यादिना साम्प्रतमुदाहरणानि दूषयते
योऽप्ययं हेतुरत्रोक्तः कथञ्चिदुपलम्भतः। .. इति नास्त्येव विषयः सन्दिग्धोऽस्येति निष्फलः ॥१३८९॥ १. नासिद्धि:-पा०, गा०./
२. ०प्यविनिश्चये-पा०, गा०। ३. ०भावलक्षणस्य-पा०, गा०। .