________________
३४८
तत्त्वसंग्रहे शब्ददीपादयो घटाद्यर्थगता धर्माः । अथ च प्रतीयते शब्दादेः सकाशादर्थ इति विपक्षभावोऽन्यथानुपपन्नत्वं चेति द्विरूपो हेतुः ॥ १३७७-१३७८ ॥ [G.408] तदित्यादिना प्रतिविधत्ते
तदिदं लक्षणं हेतोः किं सामान्येन गम्यते।
जिज्ञासितविशेषे वा धर्मिण्यथ निदर्शने॥१३७९॥ ... तत्र साध्येनाविनाभावित्वं हेतोः सामान्येन वा स्याद्, धर्मिविशेषापरिग्रहाद् विशेषेण वा स्यात्, धर्मिविशेषहरिग्रहाद् विशेषेऽपि, जिज्ञासितविशेषसाध्यधर्मिणि वा स्याद्, दृष्टान्तधर्मिणि वा-इतीयन्तः पक्षाः सम्भाव्यन्ते ॥ १३७९॥ तत्र प्रथमे दोषमाह
सामान्येन गते तस्मिन्नेवं चेत् साध्यधर्मिणि।
हेतोः सत्त्वं प्रकाश्येत न विवक्षितसिद्धिभाक्॥१३८०॥ न ह्यविनाभावित्वमात्रेणैव विना पक्षधर्मत्वं शब्दे धर्मिणि चाक्षुषत्वमनित्यत्वस्य गमकं दृष्टमित्ययुक्तः प्रथमः पक्षः। न विवक्षितसिद्धिभागिति। साध्यधर्मिणि न विवक्षितां सिद्धिं भजेदित्यर्थः ॥ १३८० ॥ कथम्? इत्याह
तद्यथा चाक्षुषत्वस्यं नाशेनाव्यभिचारिता। सामान्येन गता तच्च ध्वनौ तस्य न साधनम्॥१३८१॥ तस्य धर्मिणि सद्भावः ख्याप्यते चेत् तथा सति।
सैव त्रिरूपताऽऽयाता भवतामपि दर्शने॥१३८२॥ तच्चेति चाक्षुषत्वम्। तस्येति नाशस्य। साधनम् गमकम् । अथ मा भूद् यथोक्तदोष इति तस्य हेतोः साध्यधर्मिणि सद्भाव आश्रीयते? एवं सति तदेव त्रिरूपत्वं हेतुलक्षणमस्मदीयं भवदर्शनेऽपि जातम्॥१३८१-१३८२॥ . कथम्? इत्याह
अन्यथाऽनुपपत्त्या हि व्यतिरेकान्वयौ गतौ।
तस्य धर्मिणि सद्भावात् पक्षधर्मत्वसंश्रयः॥१३८३॥ अन्वयः सपक्षे सत्त्वम्, व्यतिरेक:-विपक्षासत्त्वम्, संश्रयणम्-संश्रयः, परिग्रह इति यावत् ॥ १३८३॥
ग्राह्यधर्मस्तदंशेन व्याप्तो हेतुरितीदृशम्।
आचार्यैरपि निर्दिष्टमीदृक्संक्षेपलक्षणम् ॥१३८४ [G.409] ग्राह्यधर्म इति । ग्राह्यस्य साध्यधर्मिणो धर्मः पक्षधर्म इति यावत्। आचार्यै रित्यनेन तन्मताविरोधं प्रतिपादयति ॥ १३८४ ॥ २. धर्मिविशेषणपरि०- पा०, गा०॥
३. ०नुपपत्यादि-पा०। ४-४. पाठोऽयं जै० पुस्तके 'यावत्' इत्यस्यानन्तरं विद्यते। ५. पा० गा०, पुस्तकयोः ‘आचार्यः' इत्यादिकारिकार्धतः पूर्वम् 'ग्राह्यधर्मः' इत्यादिकारिकाध स्थापितम्, एतत्क्रमेणैव चास्य पञ्जिकापि स्थापितेति ध्येयम्।
१. ०नुपपत्रं- जै०।