________________
३४७
अनुमानपरीक्षा चन्द्रत्वेनापदिष्टत्वानाचन्द्रः शशलाञ्छनः।
इति द्विलक्षणो हेतुरयं चापर उच्यते॥१३७१॥ [G.407) नाचन्द्रः शशी, चन्द्रः शशीति वा पक्षः, लोके सम्प्रदायप्रसिद्धचन्द्रव्यपदेशाचन्द्रत्वेनापदिष्टत्वादिति वा हेतुः । वैधhण लोष्टादि॥ १३७१ ॥
पतत्कीटकृतेयं मे वेदनेत्यवसीयते। पतत्कीटकसंस्पर्शप्रतिलब्धोदयत्वतः ॥१३७२॥ चक्षु रूपग्रहे कार्ये सदाऽतिशयशक्तिमत्।
तस्मिन् व्यापार्यमाणत्वाद् यदि वा तस्य दर्शनात्॥१३७३॥ अयं चापरो द्विलक्षण उच्यते-पतत्कीटककृतेयं मम वेदना पतत्कीटकसंस्पर्शप्रतिलब्धोदयत्वात्। पततः कीटकस्य पतङ्गस्य स्पर्शेन प्रतिलब्ध उदय: उत्पादो ययेत्यर्थः । सामान्यविवक्षा चात्रान्यपदार्थे द्रष्टव्या, तेन टान भवति। .
विद्यमानरूपग्रहणसांधकतमशक्तिकं चक्षुः, अनुपहतत्वे सति रूपदिदृक्षायां प्रेक्षापूर्वकारिणा करणत्वेन व्यापार्यमाणत्वात्, रूपपरिच्छेदनदर्शनाद्वा। वैधण श्रोत्रादि। तस्योत रूपस्य। अत्र त्रिष्वपि हेतुषु सपक्षाभावाद् द्विरूपत्वम्॥१३७२-१३७३॥
कथञ्चिदसदात्मानो यदि वाऽऽत्मघटादयः। कथञ्चित्रोपलभ्यत्वात् खरसम्बन्धिशृङ्गवत्॥१३७४॥ कथञ्चन सदात्मानः शशशृङ्गादयोऽपि च।
कथञ्चिदुपलभ्यत्वाद् यथैवाऽऽत्मघटादयः॥१३७५॥ आत्मघटादयः कथञ्चिदसदात्मानः; कथञ्चिदनुपलभ्यमानत्वात्, खरविषाणवत्। अत्र वैधर्म्यदृष्टान्तो न विद्यते। घटादिः सर्वो भवात्मको राशिः कथञ्चिदसदात्मकत्वेन प्रतिज्ञातः, अभावश्च साधर्म्यदृष्टान्तत्वेनोपन्यस्तः । न च भावाभावव्यतिरिक्तं तृतीयमस्ति, यत्र साध्यव्यवच्छेदपूर्वकः साधनव्यवच्छेदो निर्दिश्येत। खरविषाणादयो वा कथञ्चित् सदात्मकाः; कथञ्चिदुपलभ्यमानत्वात्, आत्मघटादिवत्। अत्रापि पूर्वकयैव युक्त्या वैधर्म्यदृष्टान्ताभावो योजनीयः ॥ १३७४-१३७५ ॥
त्वदीयो वापि तत्रास्ति वेश्यमनीत्यवगम्यते।
- भावत्कपितृशब्दस्य श्रवणादिह सानि॥१३७६ ॥ प्रतिपाद्यमानत्वदीयपितृकमिदं गृहम्, श्रूयमाणत्वदीयपितृकस्वरत्वात्। अत्र किल साधर्म्यदृष्टान्तो नास्तीति द्विरूपता ॥ १३७६ ॥
.. अन्यथाऽनुपपत्त्यैव . शब्ददीपादिवस्तुषु।
अपक्षधर्मभावेऽपि दृष्टा ज्ञापकतापि च॥१३७७॥
तेनैकलक्षणो हेतुः प्राधान्याद् गमकोऽस्तु नः। .. पक्षधर्मादिभिस्त्वन्यैः किं व्यर्थः परिकल्पितैः॥१३७८॥
तथा शब्ददीपादीनां धूमादिलिङ्गवज्ज्ञापकत्वं दृष्टमसत्यपि पक्षधर्मत्वे, न हि १-१. हेतुष्वसत्याषु साधर्म्यदृष्टान्ताभा०-पा०, गा० ।