________________
३४६
सहितां सजातीयसिद्धतां विजातीयव्यावृत्तिं चाभिसमीक्ष्य द्विलक्षणः; अन्यथानुपपन्नत्वं सजातीयवृत्तिः, साध्यविपक्षाच्च व्यावृत्तिरिति त्रिलक्षणः । न तु पक्षधर्मत्वादिलक्षणधर्मत्रययोगात्त्रिलक्षणहेतुरिष्यते; तस्य सम्यग्ज्ञानं प्रति हेतुत्वादुपपत्तेः ॥ १३६४ ॥ अथ वा-प्राधान्यादन्यथानुपपत्तिनामधेयेनैकलक्षणव्यपदेशः, न तु पक्षधर्मत्वा
तत्त्वसंग्रहे
दिभिस्तेषामप्राधान्यादकिञ्चित्करत्वाद्वेत्येतद्दर्शयन्नाह—
यथा लोके त्रिपुत्रः सन्नेकपुत्रक उच्यते । तस्यैकस्य सुपुत्रत्वात् तथेहापि च दृश्यताम् ॥ १३६५ ।। ननु चाविनाभावसम्बन्धात् त्रिरूपस्यैव सुहेतुता' युक्तेत्याहअविनाभावसम्बन्धस्त्रिरूपेषु न जातुचित् । अन्यथाऽसम्भवैकाङ्गहेतुष्वेवोपलभ्यते ॥ १३६६ ॥
अन्यथासम्भव एकमङ्गं येषां ते तथोक्तास्ते च ते हेतवश्चेत्यन्यथासम्भवैकाङ्गहेतवः
॥ १३६६ ॥
[G.406] अन्यथेत्यादिना यथोक्तमेवार्थं निगमयति
अन्यथानुपपन्नत्वं यस्य तस्यैव
हेतुता । दृष्टान्तौ द्वावपि स्तां वा मा वा तौ हि न कारणम् ॥ १३६७ ॥ . अन्यथानुपपन्नत्वं' यत्र तत्र त्रयेण किम् !
नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ! ॥ १३६८ ॥
दृष्टान्ताविति । साधर्म्यवैधर्म्यलक्षणौ । न कारणमिति । साध्यप्रतिपत्तेः । ' अन्यथाऽनुपपन्नत्वं यत्र' इत्यस्यानन्तरम् 'नान्यथानुपपन्नत्वम्' इत्यस्यार्द्धस्य पाठः कर्त्तव्यः ॥ १३६७
१३६८॥
त्रिरूपेऽविनाभावसम्बन्धाभावं दर्शयन्नाह -
स श्यामस्तस्य पुत्रत्वाद् दृष्टा श्यामा यथेतरे । इति त्रिलक्षणो हेतुर्न निश्चित्यै प्रवर्त्तते ॥ १३६९ ॥ तत्रैकेत्यादिनैकलक्षणस्यैव हेतोः सामर्थ्यं दर्शयत्युदाहरणप्रपञ्चेनतत्रैकलक्षणो हेतुर्दृष्टान्तद्वयवर्जितः ।
कथञ्चिदुपलभ्यत्वाद् भावाभावौ सदात्मकौ ॥ १३७० ॥ भावाभावौ कथञ्चित् सदात्मकौ; कथञ्चिदुपलभ्यत्वात् । अत्र न साधर्म्यवैधर्म्यदृष्टान्तौ बहिर्भूतौ, प्रयोगात्मकावर्थात्मकौ वा विद्येते भावाभावात्मकस्य सर्वपदार्थराशेः पक्षीकृतत्वात्, तद्व्यतिरिक्तस्य चान्यस्याभावात् । पक्षधर्मस्यान्यथानुपपन्नत्वादव्यतिरेकाच्चैकलक्षण एवायम्। कथञ्चिदिति । ज्ञेयत्वादिना केनचित् पर्यायेणैत्यर्थः । सदात्मकाविति । अत्रापि 'कथञ्चित् ' इति सम्बन्धनीयम्। तेनायमर्थो भवति - कथञ्चिदुपलभ्यत्वात् कथञ्चित् सदात्मकाव ॥ १३७० ॥
इदानीं द्विलक्षणस्य हेतोरुदाहरणान्याह -
१. हेतुता पा०, गा० ।
२. नान्यथानुपo- पा०, गा० ।
३. अन्यथानुप० पा०, गा० ।