________________
१८. अनुमानपरीक्षा अनुमानस्येदानी लक्षणमाह
स्वपरार्थविभागेन त्वनुमानं द्विधेष्यते। स्वार्थ त्रिरूपतो' लिङ्गादनुमेयार्थदर्शनम्॥१३६१॥
त्रिरूपलिङ्गवदनं परार्थं पुनरुच्यते। अनुमानं स्वार्थपरार्थभेदेन द्विविधम्। तत्र स्वार्थं यत् त्रिरूपाल्लिङ्गात् पक्षधर्मत्वम, सपक्षे सत्त्वम्, विपक्षाच्च सर्वतो व्यावृत्तिः-इत्येवंलक्षणादनुमेयार्थविषयं ज्ञानं तदात्मकं बोद्धव्यम्। परार्थं तु यथोक्तत्रिरूपलिङ्गप्रकाशकवचनात्मकं द्रष्टव्यम्।
अथानुमानाभावस्य किं लक्षणं नोक्तम्? इत्याह
. एकैकद्विद्विरूपोऽर्थो लिङ्गाभासस्ततो मतः॥१३६२॥ नित्यः शब्दः कृतंकत्वान्मूर्तत्वादप्रमेयत्वात्-इत्येकैकरूपो यथाक्रमं पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिमात्रस्य विद्यमानत्वात्। तत्र द्विद्विरूपो यथा-ध्वनिरनित्यश्चाक्षुषत्वाच्छावणत्वादमूर्तत्वात्- इति यथाक्रमं पक्षधर्मत्व-सपक्षसत्त्व-विपक्षव्यावृत्तिमात्राभावात्। तदुक्तम्- . . ..
"कृतकत्वाद् ध्वनिर्नित्यो मूर्तत्वादप्रमेयतः। अमूर्तश्रावणत्वाभ्यामनित्यश्चाक्षुषत्वतः ॥"
.. ( ) इति ॥ १३६१-१३६२॥ [G.405]अन्यथेत्यादिना पात्रस्वामिमतमाशङ्कते- .
. अन्यथानुपपनत्वे ननु दृष्टा सुहेतुता।
नासति त्र्यंशकस्यापि तस्मात् क्लीबास्त्रिलक्षणाः॥१३६३॥ स ह्याह-"अन्यथाऽनुपपनत्व एव शोभनो हेतुः न तु पुनस्त्रिलक्षणः । तथा हिअसत्यन्यथानुपपन्नत्वे त्र्यंशकस्यापि तत्पुत्रत्वादेर्न दृष्टा सुहेतुता। तस्मात् क्लीबा:= असक्ताः, त्रिलक्षणा हेतवः" इति। अन्यथेति। साध्येन विनाऽनुपपन्नत्वम्, हेतोः साध्य एव सत्त्वमित्यर्थः ॥ १३६३॥ ...अन्यथानुपपन्नत्वं यस्यासौ हेतुरिष्यते।
एकलक्षणकः सोऽर्थश्चतुर्लक्षणको न वा॥१३६४॥ ___ अन्यथेत्यादिना सविस्तरमन्वयव्यतिरेक्सन्दर्शनेनान्यथानुपपन्नत्वमेवैकलक्षण हेतुं समर्थयते । एकं लक्षणमन्यथाऽनुपपन्नत्वं यस्यास्ति स एकलक्षणः । स एव लौकिकैः परीक्षकैर्वा हेतुरिष्यते, नान्यः । अर्थापत्त्या तु पक्षधर्मत्वादित्रयमनेनैवाक्षिप्यत इति चतुर्लक्षणकोऽपि वा भवतु। न वा चतुर्लक्षणः; यस्मात् क्वचिदेकलक्षणो द्विलक्षस्त्रिलक्षणोऽपि वा न्याय्यः । तस्मादन्यथानुपपत्तिरेकं लक्षणम्, तेनैकलक्षण इति व्यपदिश्यते; अन्यथाऽनुपपत्ति१. स्वरूपतो-जै०।
२. ०वचनं-पा०, गा०। ३. पक्षसत्त्व०-पा०, गा०। .
४. नुपपन्नत्वैक-पा०, गा० ।