________________
३४४
तत्त्वसंग्रहे असत्तुल्यत्वात् तस्य। न चाभ्रान्तत्वनिश्चयोऽर्थक्रियासंवादात् प्रागस्ति, न ह्यग्दिर्शनास्तत्कार्याधिगममन्तरेण यथार्थतां ज्ञानस्य ज्ञातुमीशते; तेषां नित्यं पदार्थशक्तेः कार्यानुमेयत्वात्। यथोपदर्शितार्थप्रापणसामर्थ्यलक्षणत्वाच्च यथार्थतायाः । न चोत्तरकालं यथार्थतावधारणेऽपि साफल्यमस्ति, ततः पुनरप्रवृत्तेः ? तदेतदचोद्यम्; तथा हि-केशोण्ड्रकादिबुद्धीनापि प्रामाण्यप्रसङ्गान्माभूदतिव्यापिता लक्षणदोष:- इत्यतोऽवश्यकरणीयमभ्रान्तग्रहणमित्युक्तम्।
यश्चापि प्रवृत्तेः प्रागनिश्चयहेतुरर्वाग्दर्शित्वमुच्यते, सोऽप्यनैकान्त एव। को ह्यत्र प्रतिबन्धो यदग्दिर्शिभिर्न क्वचित् सामर्थ्य निश्चेतव्यमिति! एवं हि न किञ्चित्तैर्निश्चेयमिति प्राप्तम्। ततश्चाचेतनत्वमेव तेषामायातम्; यावता पशुशिशवोऽप्यभ्यासबलादुद्भूतभूतज्ञानवासनावृत्तयः ‘सुखस्य साधनमेतद्, एतदसुखस्य' इति प्रवृत्तेः प्रागपि निश्चित्य प्रपातादि परिहरन्तः स्तनादि चोपाददानाः सन्दृश्यन्त एव। तथा हि- अभूतमपि भावयतां कामशोकभयाद्युपप्लुतचेतसामनपेक्षितसाधादिस्मृतेरभ्यासस्य स्फुटप्रतिभासस्य ज्ञानोत्पादनसामर्थ्यमुपलभ्यत एव।
.यत्र तु पुनर्नाभ्यासस्तत्र तेषां कार्यानुमेयैव शक्तिः, न तु सर्वत्र । एतेन धूमादिलिङ्गनिश्चयोऽपि व्याख्यातः; यतस्तत्रापि तत्कार्यस्य धूमादेः प्रकृत्या परस्परमत्यन्तविविक्तस्वभावत्वात्, तद्विवेकनिश्चयस्य चाभ्यासादिहेतुत्वाल्लिङ्गनिश्चयसम्भवात्। अतो नानुमानप्रतिक्षेपः। [G.404) नन्वाद्यायां प्रवृत्तौ सत्यामभ्यासः सिध्यति, यावता सैव कथं भवतीति वक्तव्यम् ? उच्यते; संशयात् । संशयहेतोः प्रत्यक्षस्य कथं तत्र प्रामाण्यमिति चेत् ? निश्चयहेतोरपि कथं प्रामाण्यम्! अवसायोत्पादनादर्थिनस्तत्र प्रवर्तनादिति चेत्? तदेतत् संशयहेतोरपि तुल्यम्। यद्यपि तत्र प्रतीयमानार्थितार्थाकारविपरीतो व्यवसायः, तथापि न तेनाकारेण तस्य प्रत्यक्षस्य प्रवर्तकत्वम्, तथाऽवसितस्यानर्थित्वात्। नापि निर्तकत्वम्, प्रतीयमानप्रार्थितार्थाध्यवसायहेतुत्वेनार्थिनः प्रवर्त्तनात् । अन्यथा हि संशयहेतोः प्रत्यक्षादर्थी न प्रवर्तेत, नापि निवर्तेतेति प्राप्तम्, न चैवं भवति; अपि तु-अर्थिनामसम्भावितानर्थोदयानामर्थितया प्रवृत्तेरेव बलीयस्त्वम्। अनेन चांशेन निश्चयहेतोः प्रत्यक्षादस्य न कश्चिद् विशेषः । यत्र त्वेकान्तेन प्रतीयमानाविपरीताकारावसायहेतुत्वमेव, अवसानानुत्पादकत्वं वा; तत्र यस्यसर्वथार्थिनोऽप्रवर्त्तनादप्रामाण्यमेवेति युक्तं वक्तुम्, नान्यत्रेत्यलम्॥ १३५८-१३६० ॥
इति प्रत्यक्षलक्षणपरीक्षा॥
१. तदतत्-पा०. तदेतत्-गा।