________________
प्रत्यक्षलक्षणपरीक्षा
३४३ साम्यं केनचिदंशेन सर्वं स्यात् सर्ववेदकम्॥१३५७॥ यावद्भयो विजातीयेभ्यो व्यावृत्तः, तावद्भय एव ज्ञानमपीतीदं सर्वात्मना सारूप्यम्। कतिपयपदार्थव्यावृत्तितस्त्वंशेन सारूप्यम् ॥ १३५७ ॥ कथं तीर्थसारूप्यस्य प्रामाण्यमुक्तम्? इत्याह
किन्तु बाह्यार्थसद्भाववादे सारूप्यसम्भवः। ध्रुवमभ्युपगन्तव्य इत्यर्थं स प्रकातिः॥१३५८॥ निर्भासिज्ञानपक्षे हि ग्राह्याद् भेदेऽपि चेतसः। प्रतिबिम्बस्य ताद्रूप्याद् भाक्तं स्यादपि वेदनम्॥१३५९॥ येन त्विष्टं न विज्ञानमर्थसारूप्यभाजनम्।
तस्यायमपि नैवास्ति प्रकारो बाह्यवेदने॥१३६०॥ स इति सारूप्यसम्भवः, आकारो वा। निर्भासः विषयसारूप्यम्, तद्यस्यास्ति तन्निर्भासि। ग्राह्यदिति बाह्यांदर्थात्। प्रतिबिम्बस्येति ज्ञानाकारस्य। ताद्रूप्यदिति विषयसारूप्यात्। भाक्तमिति उपचरितम्। वेदनमिति। अर्थस्येति. शेषः। भाजनम् आश्रयः।।
विषयविप्रतिपत्तिस्तु सामान्यस्य वस्तुभूतस्य निराकरणाद् वस्तुविषयत्वेनेष्टस्य प्रत्यक्षस्य नान्यः स्वलक्षणाद् विषयोऽस्तीति सामर्थ्यादुपदर्शितत्वान्न पृथनिराकृता।
ये त्वाहुः- "अयुक्तमेवेदं प्रत्यक्षलक्षणम्, लक्षणं हि प्रमाणस्य प्रणीयते-अपि नाम तेन रूपेणोपलक्ष्य प्रमाणं ततः परेषां प्रवृत्तिः स्यादिति, न तु व्यसनितया; न च कल्पनापोढत्वादिनोपलक्षितस्यापि प्रवत्तर्कत्वं निवर्तकत्वं वा समस्ति लोके" इति? तदसम्यक् न हि स्वेच्छया वस्तूनां स्वभावव्यवस्थानं कर्तुं लभ्यम्, येनान्यथा प्रणीयेत लक्षणम् अपि तु यथावस्थितमेव वस्तुस्वरूपमनूद्य प्रसिद्धस्वभावमप्रसिद्धस्वभावविशेषप्रतिपिपादयिष्या' [G.403] लक्षणं प्रणयन्ति तद्विदः, यथा-पृथिव्याः खष्खटत्वम् । अन्यथा ह्यसम्भवितादोषेण दुष्टं स्यात् । न च प्रत्यक्षस्य कल्पनापोढाभ्रान्तत्वाभ्यामन्यल्लक्षणमुपलक्षकमस्ति। तथा हि- तदवश्यमभ्रान्तमङ्गीकर्तव्यम्; प्रमाणत्वात्। कल्पनापोढं च; साक्षात् स्वलक्षणविषयत्वात्। स्वलक्षणस्य चाशक्यसमयत्वेन तत्संवित्तेरनभिजल्पत्वस्य प्रसाधितत्वात् । अतो न्यायानुयातमेव लक्षणमेव तदाचक्षते कुशलाः।
न चाप्यतो लक्षणात्.प्रेक्षावतां प्रवृत्तिनिवृत्ती न भवतः। तथा हि-घटोत्क्षेपणसामान्यसङ्ख्यादिज्ञानस्य प्रत्यभिज्ञाप्रत्ययस्य च तथा पीतशङ्खादिज्ञानस्य परैः प्रत्यक्षत्वेनोपकल्पितस्य यथायोगं सविकल्पकत्वेन भ्रान्तत्वेन चाप्रत्यक्षत्वमवधार्य तद्विषयत्वेनोपकल्पितस्य सङ्ख्यादेर्वस्तुत्वाभिनिवेशान्निवर्तन्ते। यच्च निर्देश्यं नीलादिस्वलक्षणं तदेव वस्त्वित्यवसाय तत्र प्रवर्तन्ते । यथा च निर्विकल्पस्यापि प्रत्यक्षस्य प्रवर्तकत्वम्, तथा प्रागुक्तमेव।
यद्येवम्, कल्पनापोढत्वमेवैकं लक्षणं कर्तुं युक्तम्, न त्वभ्रान्तमिति। तथा हिप्रवृत्तेः प्राग्यदेव सिद्धं रूपं तदेव प्रवृत्तिकामानं लक्षणत्वेन प्रणेतुं युक्तम्, नाप्रसिद्धम्। १. प्रसिद्धस्वभावविशेष०- पा०, गा० । प्रतिपिपादविषया-जै०। २. ०खटस्वम्-पा०; खरत्वम्-गा०।
३. वा०-पा०, गा०॥