________________
३७६
तत्त्वसंग्रहे जात्यभेदादभेदश्चेदिन्द्रियत्वेन तत्समम्। तुल्यबुद्धरतो भिन्ना न सत्तेन्द्रियभेदतः ॥"
(श्रो० वा०, प्रत्य० सू० १५६, १५७) इति। एतच्चासम्यक्; बुद्धिभेदाद् भेदेऽपि साध्ये समानत्वात्। तथा हि-अत्रापि शक्यत एवं वक्तुम्-बुद्धिभेदाद् वस्तुभेद इत्यनैकान्तिकमेतत्। तथा हि-यदा बहव एकं रूपं पश्यन्ति, तदा बुद्धिभेदोऽस्त्येव; अनेकचक्षुर्ज्ञानोत्पत्तेः । न च तदा रूपस्य भेदः । अथ चक्षुर्विज्ञानजातेरभेदादेकत्वं परिकल्प्यते? एवं तर्हि रूपरसादीनामप्येकत्वं प्राप्नोति; सत्यपि तद्बुद्धिभेदे विज्ञानजातेरभेदात्। ततश्च यदुक्तम्- "बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यते"। (शो० वा०, प्रत्य० सू० १५८) इति, तद्व्याहन्येत । तस्माज्जात्युत्तरमेतत्। ...
__ अथ सत्यपि स्वलक्षणभेदे यादृशे लक्षणभेदे [G.441] यादृशो लोके भेदाभेदव्यवहारः प्रसिद्धः एकानेकप्रत्यवमर्शहेतुत्वेन तादृशौ बुद्धिभेदाभेदावुपादीयेते । इन्द्रियेऽपि सर्वं समानमित्यलं प्रसङ्गेन॥ १५१२॥
भिन्नाक्षग्रहणादिभ्यो नैकात्म्यं न तदुद्भवः। ..
व्यभिचारान्न चान्यस्य युज्यतेऽव्यभिचारिता॥१५१३॥ न तदुद्भव इति । नापि तदुत्पत्तिलक्षणसम्बन्धः; व्यभिचारात् । अर्थाभावेऽपि विवक्षामात्राद् भावात् । न चान्यस्य तदुत्पत्तिरहितस्याव्यभिचारिताऽस्ति; अतिप्रसङ्गात्। तस्मान्न वाच्येऽर्थे शब्दस्य प्रामाण्यम् ॥ १५१३ ॥ यद्येवम्, कथमुक्तम्
"न प्रमाणान्तरं शाब्दमनुमानात् तथा हि स:२।
कृतकत्वादिवत् स्वार्थमन्यापोहेन भाषते"॥ ( ) इति? एतदाशङ्कय यथानुमानेऽन्तर्भाव इष्टः, तथा प्रतिपादयन्नाह
वचोभ्यो निखिलेभ्योऽपि विवक्षैषाऽनुमीयते।
प्रत्यक्षानुपलम्भाभ्यां तद्धेतुः सा हि निश्चिता॥१५१४॥ निखिलेभ्य इति पौरुषेयत्वेनाप्यभिमतेभ्यः । सा च विवक्षा तत्कार्यत्वाद् वचनात् प्रतीयते, न तु वाच्यतया; यस्मादात्मसन्तानेऽन्वयव्यतिरेकाभ्यां वचसां हेतुः सा विवक्षा निश्चिता। यत्तूक्तम्- 'अन्यापोहेन भाषते' इति, तत्र भाषणम् द्योतनम्, ज्ञापनमिति यावत्। तथा चास्य विवरणम्-"तत्कृतकत्वादिवदर्थान्तरव्यवच्छेदेन द्योतयति" ( ) इति। अवश्यं चैतद्विज्ञेयमन्यथा कृतकत्वादिवदिति साधनविकलो दृष्टान्तः स्यात्। न हि कृतकत्वादेर्भाषणं सम्भवति; तस्य शब्दधर्मत्वात्। ततश्चान्यापोहेन भाषणादिति हेतुरसाधारणः स्यात् ॥ १५१४॥
ननु च विवक्षायामपि शब्दस्य नैव प्रामाण्यं युक्तम् । तथा हि-न तावद् विवक्षाविशेषे प्रामाण्यम्: व्यभिचारात्। भ्रान्तस्यान्यविवक्षायामन्यवाक्यदर्शनात् । नापि विवक्षासामान्ये; १. यदि- पा०. गा
२. तत्-गा। ३. न्तरसम्बढेन व्यव-पारगा।