________________
३७७
प्रमाणान्तरभावपरीक्षा वैफल्यात्। न हि विवक्षामात्रविज्ञानं क्वचिद्व्यवहाराङ्गतां प्रतिपद्यते; ततोऽर्थविशेषानिश्चयात्। एतदाशङ्कय, भ्रान्तस्येत्यादिना विवक्षाविशेषे तावत् प्रामाण्यमाह
भ्रान्तस्यान्यविवक्षायां वाक्यं चेदन्यदीक्ष्यते। 'यथाविवक्षमप्येतत् तस्मान्नैव प्रवर्त्तते॥१५१५॥
भ्रान्ताभ्रान्तप्रयुक्तानां वैलक्षण्यं परिस्फुटम्।।
विदग्धाः प्रकृतादिभ्यो निश्चिन्वन्ति गिरामलम्॥१५१६॥ भ्रान्ताभ्रान्तेत्यादि।अवश्यं हि भ्रान्ताभ्रान्तप्रयुक्तानां वैलक्षण्यमङ्गीकर्तव्यम्, अन्यथा न कारणभेदो [G.442] भेदकः स्यात्। तच्च वैलक्षण्यं कुशलाः पुरुषा निश्चिन्वन्त्येव प्रकृतादिभ्यः । प्रकृतम् प्रकरणम्।आदिशब्देनाव्याकुलता, मुखप्रसन्नतादि गृह्यते॥१५१५१५१६॥ वैलक्षण्यमेव गिरां कथम्? इत्याह
वैलक्षण्येन हेतूनां विशेषं तासु ये न तु। अवगच्छन्ति दोषोऽयं तेषां लिङ्गस्य नास्ति तु॥१५१७॥ सन्दिह्यमानवपुषो : धूमस्याप्येकदाऽन्यथा।
भावानिश्चयकालेऽपि न स्यात् तेजसि लिङ्गता॥१५१८॥ कारणभेदादिति यावत् । तस्मात् सुविवेचितं कार्यं न कारणं व्यभिचरतीति भवत्येव विवक्षाविशेषे प्रामाण्यम्।
- ये पुनस्तासु लिङ्गभूतासु गीर्षु विशेषं नावधारयन्ति, तेषामयं दोषः, न तु लिङ्गस्य। न हि लिङ्गं सत्तामात्रेण गमकमिष्यते, किं तर्हि ? निश्चितम्। तस्मात् प्रतिपत्तुर्दोषोऽयम्। अन्यथा हि क्वचिद् बाष्पादिरूपेण सन्दिह्यमानस्य धूमस्यान्यत्वाभावादगमकत्वानिश्चितस्यापि वह्नौ साध्ये न लिङ्गता प्राप्नोति।।
- अपि च-यदा सर्व एवायं शाब्दो व्यवहारस्तैमिरिकद्वयद्विचन्द्रदर्शनवत् स्वप्रतिभासानुरोधेन भ्रान्त एवेष्यते, तदा कथं विवक्षाविशेषे व्यभिचारोद्भावनादप्रामाण्यप्रसञ्जनं स्यात्; तत्र विवक्षाविशेषे पारमार्थिकस्य प्रामाण्यस्यानभ्युपगमात् । तथा चाह
... "सङ्केतापेक्षया तस्य हृदि कृत्वा प्रकाशनम्।। • अनुमानत्वमुद्दिष्टं न तु तत्त्वव्यपेक्षया ॥"
( ) इति ॥ १५१७-१५१८ ॥ विवक्षासामान्येऽपि साध्ये प्रामाण्यं प्रतिपादयन्नाह
तेषामपि विवक्षायाः केवलाया विरुध्यते।
नानुमैकान्तसद्भावात् प्राणितादिप्रसिद्धये ॥१५१९॥ तेषामपि भ्रान्ताभ्रान्तप्रयुक्तानां सर्वेषां विवक्षासामान्ये नानुमानत्वविरोधः; एकान्तसद्भावात् अव्यभिचारात । न चेह
"सान्निध्यमात्रतस्तस्य' पुंसश्चिन्तामणेरिव। १. तथा विवक्षासामान्ये- गा०।
२. सान्निध्यत्तस्तस्य-पा०, गा० ।