Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 402
________________ ३७६ तत्त्वसंग्रहे जात्यभेदादभेदश्चेदिन्द्रियत्वेन तत्समम्। तुल्यबुद्धरतो भिन्ना न सत्तेन्द्रियभेदतः ॥" (श्रो० वा०, प्रत्य० सू० १५६, १५७) इति। एतच्चासम्यक्; बुद्धिभेदाद् भेदेऽपि साध्ये समानत्वात्। तथा हि-अत्रापि शक्यत एवं वक्तुम्-बुद्धिभेदाद् वस्तुभेद इत्यनैकान्तिकमेतत्। तथा हि-यदा बहव एकं रूपं पश्यन्ति, तदा बुद्धिभेदोऽस्त्येव; अनेकचक्षुर्ज्ञानोत्पत्तेः । न च तदा रूपस्य भेदः । अथ चक्षुर्विज्ञानजातेरभेदादेकत्वं परिकल्प्यते? एवं तर्हि रूपरसादीनामप्येकत्वं प्राप्नोति; सत्यपि तद्बुद्धिभेदे विज्ञानजातेरभेदात्। ततश्च यदुक्तम्- "बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यते"। (शो० वा०, प्रत्य० सू० १५८) इति, तद्व्याहन्येत । तस्माज्जात्युत्तरमेतत्। ... __ अथ सत्यपि स्वलक्षणभेदे यादृशे लक्षणभेदे [G.441] यादृशो लोके भेदाभेदव्यवहारः प्रसिद्धः एकानेकप्रत्यवमर्शहेतुत्वेन तादृशौ बुद्धिभेदाभेदावुपादीयेते । इन्द्रियेऽपि सर्वं समानमित्यलं प्रसङ्गेन॥ १५१२॥ भिन्नाक्षग्रहणादिभ्यो नैकात्म्यं न तदुद्भवः। .. व्यभिचारान्न चान्यस्य युज्यतेऽव्यभिचारिता॥१५१३॥ न तदुद्भव इति । नापि तदुत्पत्तिलक्षणसम्बन्धः; व्यभिचारात् । अर्थाभावेऽपि विवक्षामात्राद् भावात् । न चान्यस्य तदुत्पत्तिरहितस्याव्यभिचारिताऽस्ति; अतिप्रसङ्गात्। तस्मान्न वाच्येऽर्थे शब्दस्य प्रामाण्यम् ॥ १५१३ ॥ यद्येवम्, कथमुक्तम् "न प्रमाणान्तरं शाब्दमनुमानात् तथा हि स:२। कृतकत्वादिवत् स्वार्थमन्यापोहेन भाषते"॥ ( ) इति? एतदाशङ्कय यथानुमानेऽन्तर्भाव इष्टः, तथा प्रतिपादयन्नाह वचोभ्यो निखिलेभ्योऽपि विवक्षैषाऽनुमीयते। प्रत्यक्षानुपलम्भाभ्यां तद्धेतुः सा हि निश्चिता॥१५१४॥ निखिलेभ्य इति पौरुषेयत्वेनाप्यभिमतेभ्यः । सा च विवक्षा तत्कार्यत्वाद् वचनात् प्रतीयते, न तु वाच्यतया; यस्मादात्मसन्तानेऽन्वयव्यतिरेकाभ्यां वचसां हेतुः सा विवक्षा निश्चिता। यत्तूक्तम्- 'अन्यापोहेन भाषते' इति, तत्र भाषणम् द्योतनम्, ज्ञापनमिति यावत्। तथा चास्य विवरणम्-"तत्कृतकत्वादिवदर्थान्तरव्यवच्छेदेन द्योतयति" ( ) इति। अवश्यं चैतद्विज्ञेयमन्यथा कृतकत्वादिवदिति साधनविकलो दृष्टान्तः स्यात्। न हि कृतकत्वादेर्भाषणं सम्भवति; तस्य शब्दधर्मत्वात्। ततश्चान्यापोहेन भाषणादिति हेतुरसाधारणः स्यात् ॥ १५१४॥ ननु च विवक्षायामपि शब्दस्य नैव प्रामाण्यं युक्तम् । तथा हि-न तावद् विवक्षाविशेषे प्रामाण्यम्: व्यभिचारात्। भ्रान्तस्यान्यविवक्षायामन्यवाक्यदर्शनात् । नापि विवक्षासामान्ये; १. यदि- पा०. गा २. तत्-गा। ३. न्तरसम्बढेन व्यव-पारगा।

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444