Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 397
________________ ३७६ प्रमाणान्तरभावपरीक्षा यश्चात्र कल्प्यते धर्मी प्रमेयोऽस्य स एव च। न चानवधृते तस्मिस्तद्धर्मत्वावधारणा॥१४९१॥ यश्चात्र शाब्दे कल्प्यते वृक्षादिधर्मी, स एव प्रमेयः तस्यैव प्रतिपाद्यत्वात् । धर्म्यवात्र प्रमेयः, न धर्मविशिष्टो धर्मीति यावत् । तस्मिन् धर्मिणि अनवधृते अनिश्चिते कथं तद्धर्मत्वं निश्चीयते ॥ १४९१॥ प्राक्स चेत् पक्षधर्मत्वाद् गृहीतः किं ततः परम्। पक्षधर्मादिभितैिर्येन स्यादनुमानता॥१४९२॥ किञ्च-यदि चासौं धर्मी पक्षधर्मत्वनिश्चयात् प्राग् ज्ञातः, तदा निष्फलः पक्षधर्मत्वादिनिश्चये प्रयत्नः । धर्मिप्रतिपत्त्यर्थो हि सर्वः प्रयासः, स चेत् प्रतिपन्नः, किमिदानी पक्षधर्मत्वादिनिरूपणप्रयासेन! अभ्युपगम्य चैतदभिहितम्। न च शब्दो वृक्षादेर्धर्मिणो धर्मः; वक्तृदेशेऽवधार्यमाणत्वात् ॥ १४९२ ॥ एवं तावत् पक्षधर्मत्वाभावः प्रतिपादितः । इदानीमन्वयाभावं प्रतिपादयन्नाह __ अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते। ___ व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते॥१४९३॥ निरूप्यत इति निश्चीयते। व्यापारेणेति सद्भावेन, सत्तयेति यावत्। एतदुक्तं भवतिविद्यमानस्यैवान्वेतृत्वम्, नाविद्यमानस्येति ॥ १४९३॥ एतदेव दर्शयन्नाह [G.435] यत्र धूमोऽस्ति तत्राग्रस्तित्वेनान्वयः स्फुटम्। न त्वेवं यत्र शब्दोऽस्ति तंत्रार्थोऽस्तीति निश्चितम्॥१४९४॥ यत्र धूमस्तत्रावश्यं ततो वह्रिरित्यतोऽसौ वह्निरन्वेता भवति धूमस्य, न त्वेवं शब्दस्यार्थेनान्वयः ॥ १४९४॥.. कथं नास्ति? इति प्रतिपादयन्नाह न तावत् तत्र देशेऽसौ न तत्काले च गम्यते। भवेन्नित्यविभुत्वाच्चेत् सर्वशब्देषु तत् समम्॥१४९५ ॥ न तावत् तत्र शब्दाक्रान्ते देशेऽर्थस्य सद्भावः । तथा हि-पिण्डखजूरादिशब्दोऽन्यत्र पाटलिपुत्रादौ श्रूयते, न च तत्र देशे पिण्डखजूरादिरस्ति। तथा नापि शब्दकालेऽर्थोऽवश्यं सम्भवति; दिलीप-महासम्मतदिशब्दा वर्तमानाः, तदर्थस्तु भूतो भविष्यश्चेति कुतोऽथै: शब्दस्यान्वेतृत्वम् !॥ १४९५ ॥ - तेन सर्वत्र दृष्टत्वाद् व्यतिरेकस्य चागतेः। सर्वशब्दैरशेषार्थप्रतिपत्तिः प्रसज्यते॥१४९६ ॥ अथ मतम्- नित्यत्वाच्छब्दानां सर्वकालमवस्थितेरर्थेन सह भिन्नकालता, नापि भिन्नदेशता, व्यापित्वात् सर्वदेशेष्ववस्थितेः ; अतो नित्यविभुत्वाद् भवेदन्वयः शब्दानामिति । तत्र सर्वशब्देषु तन्नित्यविभुत्वं तुल्यमिति कृत्वा प्रतिनियतेन शब्देन प्रतिनियताभिधानं न प्राप्रोति । किं तर्हि ? येन केनचिच्छब्देन सर्वस्यैवार्थस्याभिधानं स्यात्, तेनार्थेन सह सर्वत्र

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444