Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
________________
___ अनुमानपरीक्षा
३६९ अविद्धकर्णस्तत्त्वटीकायामाह- "ननु वा प्रमाणेन किमिति परः प्रतिपाद्यते, उभयसिद्धं हि प्रतिपादकं भवतीति? तदेतदयुक्तम्; यस्माद् वचनात्मकमनुमानम्, न च वक्तुः प्रमाणम्, अथ च वक्ता तेन परं प्रतिपादयति, परप्रतिपादनार्थत्वात् प्रयासस्य, नावश्यमुभयसिद्धेन प्रयोजनम्" ( ) इति। तदाशङ्कते
अनुमान प्रमाणं चेद् वक्तुर्न' वचनात्मकम्।'
प्रकाशयति तेनायं यथा तद्वदिदं भवेत्॥१४८४॥ [G.433] अयमिति वक्ता। तेनेति वचनात्मकेन ॥ १४८४ ॥ अज्ञातेत्यादिना दूषणमाह
अज्ञातार्थाप्रकाशत्वादप्रमाणं तदिष्यते।।
नासक्तासूचकत्वेन तावकीनं तथा ननु॥१४८५॥ न हि वचनस्य वक्त्रपेक्षया संसूचनादप्रामाण्यमिष्टम्, किं तर्हि ? अज्ञातार्थाप्रकाशनात्। सक्तसूचकत्वमस्यास्त्येव, त्वदीयं त्वनुमानं न सक्तसंसूचकम्-इत्यसमानमेतत्; अन्यथा ह्यभयसिद्धमेव भवेत्। तस्मान्यायादंनपेतं प्रमाणं सर्वेषां युक्तं प्रत्यक्षवदिति न्याय्यम् ।। १४८५॥
इत्यनुमानपरीक्षा॥
१. चक्रुर्न-पा०. गा०।
Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444